________________
४४
[सू० ५६] दो समाओ पन्नत्ताओ, तंजहा-ओसप्पिणी समा चेव उस्सप्पिणी समा चेव।
[टी०] केवलज्ञानं च कालविशेषे भवतीति तमाह- दो समाओ इत्यादि । समा कालविशेषः, शेषं सुगमम् ।। - [सू० ५७] दुविहे उम्माए पन्नत्ते, तंजहा-जक्खावेसे चेव, मोहणिज्जस्स चेव कम्मस्स उदएणं । तत्थ णं जे से जक्खावेसे से णं सुहवेयतराए चेव सुहविमोयतराए चेव । तत्थ णं जे से मोहणिजस्स कम्मस्स उदएणं से णं दहवेयतराए चेव दुहविमोयतराए चेव ।
[टी०] केवलज्ञानं मोहनीयोन्मादक्षय एव भवत्यतः सामान्येनोन्मादं निरूपयन्नाहदुविहे उम्माए इत्यादि, उन्मादो ग्रहो बुद्धिविप्लव इत्यर्थः, यक्षावेशः देवाधिष्ठितत्वम्, ततो यः स यक्षावेश एवेत्येकः, मोहनीयस्य दर्शनमोहनीयादेः कर्मण उदयेन यः सोऽन्य इति, तत्रेति तयोर्मध्ये योऽसौ यक्षावेशेन भवति स सुखवेद्यतरक एव मोहजनितग्रहापेक्षयाऽकृच्छानुभवनीयतर एव, अनैकान्तिकानात्यन्तिकभ्रमरूपत्वादस्येति, अतिशयेन सुखं विमोच्यते त्याज्यते यः स सुखविमोच्यतरकश्चैव, मन्त्रमूलादिमात्रसाध्यत्वादस्येति, अथवा अत्यन्तं सुखापेयः सुखापनेयः सुखापेयतरः, तथा अत्यन्तं सुखेनैव विमुञ्चति यो देहिनं स सुखविमोचतरक इति । मोहजस्तु तद्विपरीतः, ऐकान्तिकात्यन्तिकभ्रमस्वभावतयाऽत्यन्तानुचितप्रवृत्तिहेतुत्वेनाऽनन्तभवकारणत्वात् तथाऽऽन्तरकारणजनितत्वेन मन्त्राद्यसाध्यत्वात् कर्मक्षयोपशमादिनैव साध्यत्वादिति, अत एवोक्तम्- दुहवेयतराए चेव दुहविमोयतराए चेव त्ति ।
[सू० ५८] दो दंडा पन्नत्ता, तंजहा-अट्ठादंडे चेव अणट्ठादंडे चेव । नेरइयाणं दो दंडा पन्नत्ता, तंजहा-अट्ठादंडे य अणट्ठादंडे य । एवं चउवीसादंडओ जाव वेमाणियाणं ।
[टी०] उन्मादात् प्राणी प्राणातिपातादिरूपे दण्डे प्रवर्त्तते दण्डभाजनं वा भवतीति दण्डं निरूपयन्नाह- दो दंडेत्यादि, दण्डः प्राणातिपातादिः, स चाऽर्थाय इन्द्रियादिप्रयोजनाय यः सोऽर्थदण्डः, निष्प्रयोजनस्त्वनर्थदण्ड इति । उक्तरूपमेव दण्डं