________________
४३
द्वितीयमध्ययनं द्विस्थानकम् । प्रथम उद्देशकः । केवलं उप्पाडेज्ज त्ति द्रष्टव्यम्, सुयनाणं ति श्रूयते तदिति श्रुतं शब्द एव, स च भावश्रुतकारणत्वात् ज्ञानं श्रुतज्ञानं श्रुतग्रन्थानुसारि ओघतः सर्वद्रव्यासर्वपर्यायविषयमक्षरश्रुतादिभेदमिति । तथा ओहिनाणं ति अवधीयतेऽनेनास्मादस्मिन् वेत्यवधिः, अवधीयते इत्यधोऽधो विस्तृतं परिच्छिद्यते मर्यादया वेत्यवधिः अवधिज्ञानावरणक्षयोपशम एव, तदुपयोगहेतुत्वादिति, अवधानं वाऽवधिर्विषयपरिच्छेदनमिति, अवधिश्चासौ ज्ञानं चेत्यवधिज्ञानम् इन्द्रियमनोनिरपेक्षमात्मनो रूपिद्रव्यसाक्षात्करणमिति । तथा मणपज्जवनाणं ति मनसि मनसो वा पर्यवः परिच्छेदः स एव ज्ञानम्, अथवा मनसः पर्यवाः पर्ययाः पर्याया वा विशेषाः अवस्था मनःपर्यवादयस्तेषां तेषु वा ज्ञानं मनःपर्यवज्ञानम्, एवमितरत्रापि, समयक्षेत्रगतसंज्ञिमन्यमानमनोद्रव्यसाक्षात्कारीति । केवलनाणं ति केवलम् असहायं मत्यादिनिरपेक्षत्वादकलङ्क वा आवरणमलाभावात् सकलं वा तत्प्रथमतयैवाशेषतदावरणाभावतः सम्पूर्णोत्पत्तेरसाधारणं वा अनन्यसदृशत्वादनन्तं वा ज्ञेयानन्तत्वात् तच्च तज्ज्ञानं च केवलज्ञानमिति ।
[सू० ५५] दो ठाणाई परियाइत्ता आया केवलिपन्नत्तं धम्मं लभेज सवणयाए, तंजहा- आरंभे चेव परिग्गहे चेव, एवं जाव केवलनाणमुप्पाडेजा।
दोहिं ठाणेहिं आया केवलिपन्नत्तं धम्मं लभेज सवणयाए, तंजहा-सोच्च च्चेव अभिसमेच्च च्चेव जाव केवलनाणं उप्पाडेजा। __ [टी०] कथं पुनर्द्धर्मादीनि विद्या-चरणस्वरूपाणि प्राप्नोतीत्याह- दो ठाणाइमित्याद्येकादशसूत्री सुगमा। धादिलाभ एव पुनः कारणान्तरद्वयमाह-दोहीत्यादि सुगमम्, केवलं श्रवणतया श्रवणभावेन, सोच्च च्चेव त्ति ह्रस्वत्वादि प्राकृतत्वादेव, श्रुत्वा आकर्ण्य, तस्यैवोपादेयतामिति गम्यते, अभिसमेत्य समधिगम्य, तामेवावबुध्येत्यर्थः, उक्तं च
सद्धर्मश्रवणादेव नरो विगतकिल्बिषः । ज्ञाततत्त्वो महासत्त्वः परं संवेगमागतः ॥ धर्मोपादेयतां ज्ञात्वा सञ्जातेच्छोऽत्र भावतः । दृढं स्वशक्तिमालोच्य ग्रहणे संप्रवर्तते ॥ [धर्मबिन्दौ ३१-२] इति । एवं बोहिं बुज्झेज्जेत्यादि यावत् केवलनाणं उप्पाडेज्ज त्ति ।