________________
३६
चेव त्ति अप्रत्याख्यानम् अविरतिः, तन्निमित्तः कर्म्मबन्धोऽप्रत्याख्यानक्रिया, सा चाविरतानां भवतीति १० ।
आद्या द्वेधा– सहत्थपाणाइवायकिरिया चेव त्ति स्वहस्तेन स्वप्राणान् निर्वेदादिना परप्राणान् वा क्रोधादिना अतिपातयतः स्वहस्तप्राणातिपातक्रिया, तथा परहत्थपाणाइवायकिरिया चेव त्ति परहस्तेनापि तथैव परहस्तप्राणातिपातक्रियेति
११।
द्वितीयापि द्विधा - जीवअपच्चक्खाणकिरिया चेव त्ति जीवविषये प्रत्याख्यानाभावेन यो बन्धादिव्यापारः सा जीवाप्रत्याख्यानक्रिया, तथा अजीवअपच्चक्खाणकिरिया चेव त्ति यदजीवेषु मद्यादिष्वप्रत्याख्यानात् कर्मबन्धनं सा अजीवाप्रत्याख्यानक्रियेति १२ ।
पुनरन्यथा द्वे - आरंभिया चेव त्ति आरम्भणमारम्भ:, तत्र भवा आरम्भिकी, तथा पारिग्गहिया चेव त्ति परिग्रहे भवा पारिग्रहिकीति १३ ।
आद्या द्वेधा - जीवआरंभिया चेव त्ति यज्जीवानारभमाणस्य उपमृद्नतः कर्मबन्धनं सा जीवारम्भिकी, तथा अजीवारंभिया चेव त्ति यच्चाजीवान् जीवकडेवराणि पिष्टादिमयजीवाकृतींश्च वस्त्रादीन् वा आरभमाणस्य सा अजीवारम्भिकीति १४ ।
एवं पारिग्गहिया चेव त्ति आरम्भिकीवद् द्विधेत्यर्थः, जीवाजीवपरिग्रहप्रभवत्वात् तस्या इति भावः १५/
पुनरन्यथा द्वे - मायावत्तिया चेव त्ति माया शाठ्यं प्रत्ययो निमित्तं यस्याः कर्मबन्धक्रियाया व्यापारस्य वा सा तथा, मिच्छादंसणवत्तिया चेव त्ति मिथ्यादर्शनं मिथ्यात्वं प्रत्ययो यस्याः सा तथेति १६ ।
आद्या द्वेधा— आयभाववंकणया चेव त्ति आत्मभावस्याप्रशस्तस्य वङ्कनता वक्रीकरणं प्रशस्तत्वोपदर्शनता आत्मभाववङ्कनता, वङ्कनानां च बहुत्वविवक्षायां भावप्रत्ययो न विरुद्धः, सा च क्रिया व्यापारत्वात्, तथा परभाववंकणया चेव ति परभावस्य वङ्कनता वञ्चनता या कूटलेखकरणादिभिः सा परभाववङ्कनतेति, यतो वृद्धव्याख्येयम्– तं तं भावमायरड़ जेण परो वंचिज्जइ कूडलेहकरणाईहिं [आव०