________________
चतुर्थमध्ययनं चतुःस्थानकम् । चतुर्थ उद्देशकः ।
३८१ [सू० ३५२] चत्तारि पक्खी पन्नत्ता, तंजहा-णिवतित्ता णाममेगे नो परिवतित्ता, परिवतित्ता नामं एगे नो निवतित्ता, एगे निवतित्ता वि परिवतित्ता वि, एगे नो निवतित्ता नो परिवतित्ता ३७ । एवामेव चत्तारि भिक्खागा पन्नत्ता, तंजहा-णिवतित्ता णाममेगे नो परिवतित्ता ह्व [= ४], ३८ ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-णिक्कठे णाममेगे णिक्कट्टे, निक्कडे नाममेगे अणिक्कठे ह्व [= ४], ३९ ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-णिक्कट्टे णाममेगे णिक्कट्टप्पा, णिक्कट्ठे नाममेगे अणिक्कट्टप्पा ह्व [= ४], ४० ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-बुहे नाममेगे बुहे, बुहे नाममेगे अबुहे ह्व [= ४], ४१ ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-बुधे नाममेगे बुधहियए ह [= ४], ४२ ।
चत्तारि पुरिसजाया पन्नत्ता, तंजहा-आताणुकंपते णाममेगे नो पराणुकंपते ह्व [= ४], ४३ ।
[टी०] पुरुषाधिकारात् पुरुषविशेषप्रतिपादनाय प्रायः सदृष्टान्तसूत्राणि पुरुषसूत्राणि त्रिचत्वारिंशतं चत्तारि मेहेत्यादीन्याह, सुगमानि, नवरं मेघाः पयोदाः । गर्जिता गर्जिकृत् नो वर्षिता न प्रवर्षणकारीति १ । एवं कश्चित् पुरुषो गर्जितेव गर्जिता दानज्ञान-व्याख्याना-ऽनुष्ठान-शत्रुनिग्रहादिविषये उच्चैः प्रतिज्ञावान् नो नैव वर्षितेव वर्षिता वर्षकोऽभ्युपगतसम्पादक इत्यर्थः, अन्यस्तु कार्यकर्ता न चोच्चैः प्रतिज्ञावानिति, एवमितरावपि नेयाविति २।।
विज्जुयाइत्त त्ति विद्युत्कर्ता ३ । एवं पुरुषोऽपि कश्चिदुच्चैः प्रतिज्ञाता न च विद्युत्कारतुल्यस्य दानादिप्रतिज्ञातार्थारम्भाडम्बरस्य कर्ता, अन्यस्तु आरम्भाडम्बरस्य कर्ता न प्रतिज्ञातेति, एवमन्यावपीति ४ । वर्षिता कश्चिद् दानादिभिर्न तु तदारम्भाडम्बरकर्ता, अन्यस्तु विपरीतोऽन्य उभयथाऽन्यो न किञ्चिदिति ५-६ ।
कालवर्षी अवसरवर्षीति, एवमन्येऽपि ७ । पुरुषस्तु कालवर्षीव कालवर्षी अवसरे