________________
३७६
अतिचाररूपं यस्य स तथा, बहिः शल्यम् आलोचिततया यस्य स तथा, अन्तर्बहिश्च शल्यमालोचितानालोचितत्वेन यस्य स तथा, चतुर्थः शून्यः । __ अन्तर्दृष्टं व्रणं लूतादिदोषतः, न बही रागाद्यभावेन सौम्यत्वात् ४, पुरुषस्तु अन्तर्दुष्टः शठतया संवृताकारत्वान्न बहिरित्येकः, अन्यस्तु कारणेनोपदर्शितवाक्पारुष्यादित्वाद् बहिरेवेति ४।।
पुरुषाधिकारात् तद्भेदप्रतिपादनाय षट्सूत्री कण्ठ्या च, किन्तु अतिशयेन प्रशस्यः श्रेयानेकः प्रशस्यभावः सद्बोधत्वात्, पुनः श्रेयान् प्रशस्तानुष्ठानत्वात् साधुवदित्येकः १, अन्यस्तु श्रेयांस्तथैव, अतिशयेन पापः पापीयान्, स चाविरतत्वेन दुरनुष्ठायित्वादिति २, अन्यस्तु पापीयान् भावतो मिथ्यात्वादिभिरुपहतत्वात् कारणवशात् सदनुष्ठायित्वाच्च श्रेयान् उदायिनृपमारकवत् ३, चतुर्थः स एव कृतपाप इति ४ । अथवा श्रेयान् गृहस्थत्वे निष्क्रमणकाले वा, पुनः श्रेयान् प्रव्रज्यायां विहारकाले वेत्येवमन्येऽपि ।
श्रेयानेको भावतो द्रव्यतस्तु श्रेयान् प्रशस्यतर इत्येवंबुद्धिजनकत्वेन सदृशकः अन्येन श्रेयसा तुल्यो न तु सर्वथा श्रेयानेवेत्येकः १, अन्यस्तु भावतः श्रेयानपि द्रव्यतः पापीयानित्येवंबुद्धिजनकत्वेन सदृशकः अन्येन पापीयसा समानो न तु पापीयानेवेति द्वितीयः २, भावतः पापीयानप्यन्यः संवृताकारतया श्रेयानित्येवंबुद्धि [जकनत्वेन] सदृशकोऽन्येन श्रेयसेति तृतीयः ३, चतुर्थः सुज्ञानः ४। ।
श्रेयानेकः सवृत्तत्वात् श्रेयानित्येवमात्मानं मन्यते यथावद् बोधात् लोकेन वा मन्यते विशदशुभानुष्ठानाद्, इह च मन्निज्जइ त्ति वक्तव्ये प्राकृतत्वेन मन्नइ इत्युक्तम् १, श्रेयानप्यन्य आत्मन्यरुचिपरायणत्वात् पापीयानित्यात्मानं मन्यते, स एव वा पूर्वोपलब्धतद्दोषेण जनेन मन्यते दृढप्रहारिवत् २, पापीयानप्यपरो मिथ्यात्वाद्युपहततया श्रेयानित्यात्मानं मन्यते, कुतीर्थिकवत्, तद्भक्तेन वेति ३, पापीयानन्योऽविरतिकत्वात् पापीयानित्यात्मानं मन्यते, सद्बोधत्वात, असंयतो वा मन्यते संयतलोकेनेति ४ ।
श्रेयानेको भावतो द्रव्यतस्तु किञ्चित्सदनुष्ठायित्वात् श्रेयानित्येवंविकल्पजनकत्वेन सदृशकोऽन्येन श्रेयसा मन्यते ज्ञायते जनेनेति, विभक्तिपरिणामाद्वा सदृशकमात्मानं मन्यत इति, एवं शेषाः ।