________________
३७४
निर्बलं वल्लादि, अवमम् ऊनम्, उद्भ्रामो भिक्षाभ्रमणम्, आहिंडणं देशेषु, मण्डली सूत्रार्थयोः, कप्पट्ठिया श्रेष्ठिवधूरिति । चिकित्सका द्रव्यतो ज्वरादिरोगान् प्रति भावतो रागादीन् प्रतीति, तत्रात्मनो ज्वरादेः कामादेर्वा चिकित्सक: प्रतिकर्तेत्यात्मचिकित्सक इति ।
[सू० ३४३] चत्तारि पुरिसजाया पन्नत्ता, तंजहा-वणकरे णाममेगे नो वणपरिमासी, वणपरिमासी नाममेगे णो वणकरे, एगे वणकरे वि वणपरिमासी वि, एगे णो वणकरे णो वणपरिमासी । . __चत्तारि पुरिसजाता पन्नत्ता, तंजहा-वणकरे नाममेगे णो वणसारक्खी ह्व [= ४] ।
चत्तारि पुरिसजाता पन्नत्ता, तंजहा-वणकरे नाम एगे णो वणसरोही ह्व [= ४] ।
[टी०] अथात्मचिकित्सकान् भेदतः सूत्रत्रयेणाह- चत्तारीत्यादि कण्ठ्यम्, नवरं व्रणं देहे क्षतं स्वयं करोति रुधिरादिनिर्गालनार्थमिति व्रणकरः, नो नैव व्रणं परिमृशतीत्येवंशीलो व्रणपरिमीत्येकः, अन्यस्त्वन्यकृतं व्रणं परिमृशति, न च तत् करोतीति, एवं भावव्रणम् अतिचारलक्षणं करोति कायेन, न च तदेव परिमृशति पुनः पुनः संस्मरणेन स्पृशति । अन्यस्तु तत् परिमृशत्यभिलाषान्न च करोति कायतः संसारभयादिभिरिति ।
व्रणं करोति न च तत् पट्टबन्धादिना संरक्षति, अन्यस्तु कृतं संरक्षति न च करोति, भावव्रणं त्वाश्रित्यातिचारं करोति न च तं सानुबन्धं भवन्तं कुशीलादिसंसर्गतन्निदानपरिहारतो रक्षत्येकः, अन्यस्तु पूर्वकृतातिचारं निदानपरिहारतो रक्षति नवं च न करोति ।
नो नैव व्रणं संरोहयत्यौषधदानादिनेति व्रणसरोही, भावव्रणापेक्षया तु नो व्रणसंरोही प्रायश्चित्ताप्रतिपत्तेः, व्रणरोही पूर्वकृतातिचारप्रायश्चित्तप्रतिपत्त्या, नो व्रणकरोऽपूर्वातिचाराकारित्वादिति ।
[सू० ३४४] चत्तारि वणा पन्नत्ता, तंजहा-अंतोसल्ले नाममेगे णो बाहिंसल्ले