________________
चतुर्थमध्ययनं चतुःस्थानकम् । तृतीय उद्देशकः।
३४५ नरतयोत्पन्नस्याऽन्य: पूर्वलक्षादि जीवित्वा सौधादिषूत्पद्य सम्बोधनार्थं यदेहागच्छति तदाऽवसेयमिति । इत्येतैरित्यादि निगमनमिति ।
[सू० ३२४] चउहिं ठाणेहिं लोगंधगारे सिया, तंजहा-अरहंतेहिं वोच्छिज्जमाणेहिं, अरहंतपन्नत्ते धम्मे वोच्छिज्जमाणे, पुव्वगते वोच्छिज्जमाणे, जायतेजे वोच्छिज्जमाणे । ___ चउहिं ठाणेहिं लोउज्जोते सिता, तंजहा-अरहंतेहिं जायमाणेहिं, अरहंतेहिं पव्वयमाणेहिं, अरहंताणं णाणुप्पयमहिमासु, अरहंताणं परिनिव्वाणमहिमासु। एवं देवंधगारे देवुजोते देवसंनिवाते देवुक्कुलिता देवकहकहते । __चउहिं ठाणेहिं देविंदा माणुसं लोगं हव्वमागच्छंति, एवं जधा तिट्ठाणे, जाव लोगंतिता देवा माणुसं लोगं हव्वमाच्छेज्जा, तंजहा-अरहंतेहिं जायमाणेहिं जाव अरहंताणं परिनिव्वाणमहिमासु ।
[टी०] अनन्तरं देवागम उक्तस्तत्र तत्कृतोड्योतो भवतीति तद्विपक्षमन्धकारं लोके आह- चउहीत्यादि व्यक्तम्, नवरं लोकेऽन्धकारं तमिस्रं द्रव्यतो भावतश्च पदत्रये स्यात्, सम्भाव्यते ह्यर्हदादिव्यवच्छेदे द्रव्यतोऽन्धकारम्, उत्पातरूपत्वात् तस्य, छत्रभङ्गादौ रजउद्घातादिवदिति, वह्निव्यवच्छेदेऽन्धकारं द्रव्यत एव तथास्वभावात् दीपादेरभावाद्वा, भावतोऽपि वा, एकान्तदुःषमादावागमादेरभावादिति ।।
पूर्वं देवागम उक्तः, अतो देवाधिकारवन्तमा दुःखशय्यासूत्रात् सूत्रप्रपञ्चमाहचउहीत्यादि, सुगमश्चायम्, नवरं लोकोड्योतश्चतुर्ध्वपि स्थानेषु देवागमात्, जन्मादित्रये तु स्वरूपेणापि, एवमिति यथा लोकान्धकार तथा देवान्धकारमपि चतुर्भिः स्थानैः, देवस्थानेष्वपि ह्यर्हदादिव्यवच्छेदकाले वस्तुमाहात्म्यात् क्षणमन्धकारं भवतीति, एवं देवोयोतोऽर्हतां जन्मादिष्विति, देवसन्निपातो देवसमवायः, एवमेव देवोत्कलिका देवलहरिः, एवमेव देवकहकहे त्ति देवप्रमोदकलकल: । एवमेव देवेन्द्रा मनुष्यलोकमागच्छेयुः अर्हतां जन्मादिष्वेवेति यथा त्रिस्थानके प्रथमोद्देशके [सू. १४२] तथा देवेन्द्रागमनादीनि लोकान्तिकसूत्रावसानानि वाच्यानि, केवलमिह परिनिर्वाणमहिमास्विति चतुर्थमिति ।