________________
३४४
तन्मलानां च बहुत्वेन दुरभिगन्धप्राचुर्यादिति, आगच्छति मनुष्यक्षेत्रादाजिगमिषु देवं प्रतीति, इदं च मनुष्यक्षेत्रस्याशुभस्वरूपत्वमेवोक्तम्, न च देवोऽन्यो वा नवभ्यो योजनेभ्य: परत: आगतं गन्धं जानातीति, अथवा अत एव वचनात् यदिन्द्रियविषयप्रमाणमुक्तं तदौदारिकशरीरेन्द्रियापेक्षयैव सम्भाव्यते, कथमन्यथा विमानेषु योजनलक्षादिप्रमाणेषु दूरस्थिता देवा घण्टाशब्दं शृणुयुर्यदि परं प्रतिशब्दद्वारेणान्यथा वेति नरभवाशुभत्वं चतुर्थमनागमनकारणमिति, शेषं निगमनम् । __ आगमनकारणानि प्राय: प्राग्वत् तथापि किञ्चिदुच्यते, कामभोगेष्वमूर्च्छितादिविशेषणो यो देवस्तस्य एवमिति एवंभूतं मनो भवति यदुत अस्ति मे, किन्तदित्याह- आचार्य इति वा, इति: उपप्रदर्शने, वा विकल्पे, एवमुत्तरत्रापि, क्वचिदितिशब्दो न दृश्यते तत्र तु सूत्रं सुगममेवेति, इह च आचार्य: प्रतिबोधक-प्रव्राजकादिरनुयोगाचार्यो वा, उपाध्यायः सूत्रदाता, इत्यादि पूर्ववत् । इम त्ति इयं प्रत्यक्षासन्ना, एतदेव रूपं यस्या न कालान्तरादावपि रूपान्तरभाक् सा तथा, दिव्या स्वर्गसम्भवा प्रधाना वा, देवर्द्धिः विमानरत्नादिका, द्युति: शरीरादिसम्भवा युतिर्वा युक्तिरिष्टपरिवारादिसंयोगलक्षणा, लब्धा उपार्जिता जन्मान्तरे, प्राप्ता इदानीमुपनता, अभिसमन्वागता भोग्यावस्था गता, तं ति तस्मात्तान् भगवत: पूज्यान् वन्दे स्तुतिभिः, नमस्यामि प्रणामेन, सत्करोमि आदरकरणेन वस्त्रादिना वा, सन्मानयाम्युचितप्रतिपत्त्या, कल्याणं मङ्गलं दैवतं चैत्यमिति बुद्ध्या पर्युपासे सेवे इत्येकम् । तथा ज्ञानी श्रुतज्ञानादिनेत्यादि द्वितीयम् । तथा 'भाया इ वा भज्जा इ वा भइणी इ वा पुत्ता इ वा धूया इ वे'ति यावच्छब्दाक्षेप:, स्नुषा पुत्रभार्या, तं तस्मात्तेषामन्तिकं समीपं प्रादुर्भवामि प्रकटीभवामि, ता तावत्, मे मम, इमे इति पाठान्तरम्, इति तृतीयम् । तथा मित्रं पश्चात्स्नेहवत्, सखा बालवयस्य:, सुहृत् सजनो हितैषी, सहाय: सहचरस्तदेककार्यप्रवृत्तो वा, सङ्गतं विद्यते यस्यासौ सङ्गतिकः परिचितस्तेषाम्, अम्हे त्ति अस्माभि: अन्नमन्नस्स त्ति अन्योन्यं संगारे त्ति सङ्केत: प्रतिश्रुत: अभ्युपगतो भवति स्मेति, जे मे त्ति योऽस्माकं पूर्वं च्यवते देवलोकात् स सम्बोधयितव्य इति चतुर्थम्, इदं च मनुष्यभवे कृतसङ्केतयोरेकस्य पूर्वलक्षादिजीविषु भवनपत्यादिषूत्पद्य च्युत्वा च