________________
प्रथममध्ययनम् एकस्थानकम् ।
विवेकस्त्याग इति ।
[सू० ४०] एगा ओसप्पिणी, एगा सुसमसुसमा जाव एगा दूसमदूसमा। एगा उस्सप्पिणी, एगा दुस्समदुस्समा जाव एगा सुसमसुसमा ।।
[टी०] उक्तं सपुद्गलजीवद्रव्यधर्माणामेकत्वमिदानीं कालस्य स्थितिरूपत्वेन तद्धर्मत्वात् तद्विशेषाणाम् एगा ओसप्पिणीत्यादिना सुसमसुसमेत्येतदन्तेनैतदेवाह । अथ काल एव कथमवसीयत इति चेत् ?, उच्यते, बकुल-चम्पकाऽशोकादिपुष्पप्रदानस्य नियमेन दर्शनान्नियामकश्च काल इति । तत्र ओसप्पिणि त्ति अवसर्पति हीयमानारकतया अवसर्पयति वाऽऽयुष्क-शरीरादिभावान् हापयतीत्यवसर्पिणी सागरोपमकोटीकोटीदशकप्रमाण: कालविशेषः । सुष्ठ समा सुषमा, अत्यन्तं सुषमा सुषमसुषमा अत्यन्तसुखस्वरूपस्तस्या एव प्रथमारक इति, एकत्वं चावसर्पिण्या: स्वरूपेणैकत्वादेवं सर्वत्र, यावदिति सीमोपदर्शनार्थः, ततश्च सुषमसुषमेत्यादि सूत्रं स्थानान्तरप्रसिद्धं तावदध्येयमिह यावद् दूसमसमेति पदमित्यतिदेशः, अयं च सूत्रलाघवार्थमिति, एवं च सर्वत्र यावदिति व्याख्येयम्, अतिदेशलब्धानि च पदान्येकशब्दोपपदान्येतानि, ‘एगा सुसमसुसमा, एगा सुसमा, एगा सुसमदुसमा, एगा दुसमसुसमा, एगा दुसमा, एगा दुसमदुसमे'त्ति । आसां स्वरूपं शब्दानुसारतो ज्ञेयम् । तथा उत्सर्पति वर्द्धतेऽरकापेक्षया उत्सर्पयति वा भावानायुष्कादीन् वर्धयतीति उत्सर्पिणी अवसर्पिणीप्रमाणा, दुष्ठ समा दुःषमा दुःखरूपा अत्यन्तं दुःषमा दुःषमदुःषमा, यावत्करणाद् ‘एगा दूसमा, एगा दुसमसुसमा, एगा सुसमदुसमा, एगा सुसमे'ति दृश्यम्, एतत्प्रमाणं च पूर्वोक्तमेव नवरं विपर्यासादिति ।
[सू० ४१] [१] एगा नेरइयाणं वग्गणा, एगा असुरकुमाराणं वग्गणा, चउवीसादडओ जाव एगा वेमाणियाणं वग्गणा ।
[२] एगा भवसिद्धीयाणं वग्गणा, एगा अभवसिद्धीयाणं वग्गणा । एगा भवसिद्धीयाणं णेरतियाणं वग्गणा, एगा अभवसिद्धीयाणं रतियाणं वग्गणा, एवं जाव एगा भवसिद्धियाणं वेमाणियाणं वग्गणा, एगा अभवसिद्धियाणं वेमाणियाणं वग्गणा ।