________________
३२४
द्वयोर्द्वयोर्वाप्योरन्तराले बहिःकोणयोः प्रत्यासन्नौ द्वौ द्वावित्यर्थः । अंजणगाइगिरीणं णाणामणिपज्जलंतसिहरेसु । बावन्नं जिणणिलया मणिरयणसहस्सकूडवरा ॥ [ ] इति । तत्त्वं तु बहुश्रुता विदन्तीति । [सू० ३०८] चउव्विहे सच्चे पन्नत्ते, तंजहा-णामसच्चे, ठवणसच्चे, दव्वसच्चे, भावसच्चे ।
[टी०] एतच्च पूर्वोक्तं सर्वं सत्यं जिनोक्तत्वात् इति सत्यसम्बन्धेन सत्यसूत्रम् । नाम-स्थापनासत्ये सुज्ञाने, द्रव्यसत्यमनुपयुक्तस्य सत्यमपि, भावसत्यं तु यत् स्वपरानुपरोधेनोपयुक्तस्येति ।
[सू० ३०९] आजीवियाणं चउविहे तवे पन्नत्ते, तंजहा- उग्गतवे, घोरतवे, रसणिज्जूहणता, जिभिंदियपडिसंलीणता ।
[टी०] सत्यं चारित्रविशेष इति चारित्रविशेषानुद्देशकान्तं यावदाह आजीविएत्यादि, आजीविकानां गोशालकशिष्याणाम् । उग्रं तप: अष्टमादि, क्वचन उरमिति पाठः तत्र उरं शोभनम् इहलोकाद्याशंसारहितत्वेनेति, घोरम् आत्मनिरपेक्षम्, रसनिजूहणया घृतादिरसपरित्यागः, जिह्वेन्द्रियप्रतिसंलीनता मनोज्ञा-ऽमनोज्ञेष्वाहारेषु राग-द्वेषपरिहार इति, आर्हतानां तु द्वादशधेति ।
[सू० ३१०] चउव्विहे संजमे पन्नत्ते, तंजहा-मणसंजमे, वतिसंजमे, कायसंजमे, उवकरणसंजमे ।
चउव्विधे चिताते पन्नत्ते, तंजहा-मणचियाते, वतिचियाते, कायचियाते, उवकरणचियाते ।
चउव्विहा अकिंचणता पन्नत्ता, तंजहा-मणअकिंचणता, वतिअकिंचणता, कायअकिंचणता, उवकरणअकिंचणता ।
॥ चउट्ठाणस्स बीओ उद्देसओ सम्मत्तो ॥ [टी०] मनोवाक्कायानामकुशलत्वेन निरोधा: कुशलत्वेन तूदीरणानि संयमा:, उपकरणसंयमो महामूल्यवस्त्रादिपरिहारः, पुस्तक-वस्त्र-तृण-चर्मपञ्चकपरिहारो वा,