________________
प्रथममध्ययनम् एकस्थानकम् ।
दुर्ग्रह इति संसर्गजत्वादेव नोक्त इति । रसः पञ्चधा, तत्र श्लेष्मनाशकृत् तिक्तः १, वैशद्यच्छेदनकृत् कटुकः २, अन्नरुचिस्तम्भनकृत् कषायः ३, आश्रवण-क्लेदनकृदम्लः ४, ह्लादन-बृंहणकृन्मधुरः ५, संसर्गजो लवण इति नोक्त इति । स्पर्शोऽष्टविधः, तत्र कर्कशः कठिनोऽनमनलक्षणः १, यावत्करणात् मृद्वादयः षडन्ये, तत्र मृदुः सन्नतिलक्षणः २, गुरुरधोगमनहेतुः ३, लघुः प्रायस्तिर्यगूर्ध्वगमनहेतुः ४, शीतो वैशद्यकृत् स्तम्भनस्वभावः ५, उष्णो माईवपाककृत् ६, स्निग्धः संयोगे सति संयोगिनां बन्धकारणम् ७, रूक्षस्तथैवाबन्धकारणमिति ८ ।
[सू० ३९] एगे पाणातिवाए जाव एगे परिग्गहे । एगे कोधे जाव लोभे। एगे पेज्जे, एगे दोसे जाव एगे परपरिवाए। एगा अरतिरती । एगे मायामोसे। एगे मिच्छादसणसल्ले ।
एगे पाणातिवायवेरमणे जाव परिग्गहवेरमणे । एगे कोधविवेगे जाव मिच्छादसणसल्लविवेगे ।
[टी०] उक्ता पुद्गलधाणामेकता, इदानीं पुद्गलालिङ्गितजीवाप्रशस्तधर्माणामष्टादशानां पापस्थानकाभिधानानाम् स्वरूपमाह- एगे पाणाइवाए इत्यादि प्राणाः उच्छ्वासादयः, तेषामतिपातनं प्राणवता सह वियोजनं प्राणातिपातो हिंसेत्यर्थः, उक्तं च
पञ्चेन्द्रियाणि त्रिविधं बलं च उच्छ्वासनिःश्वासमथान्यदायुः । प्राणा दशैते भगवद्भिक्तास्तेषां वियोजीकरणं तु हिंसा ॥ [ ] इति,
स च प्राणातिपातो द्रव्य-भावभेदात् द्विविधः, विनाश-परिताप-सङ्क्लेशभेदात् त्रिविधो वा, आह च
तप्पज्जायविणासो दुक्खुप्पाओ य संकिलेसो य । एस वहो जिणभणिओ वज्जेयव्वो पयत्तेणं ॥ [ श्रावकप्र० १९१] ति ।
अथवा मनोवाक्कायैः करण-कारणा-ऽनुमतिभेदान्नवधा, पुनः स क्रोधादिभेदात् षट्त्रिंशद्विधो वेति १ । तथा मृषा मिथ्या वदनं वादो मृषावादः, स च द्रव्य-भावभेदात् द्विधा, अभूतोद्भावनादिभिश्चतुर्धा वा, तथाहि- अभूतोद्भावनं यथा सर्वगत आत्मा,