________________
३२२
तदिदं मतान्तरमित्यवसेयम्, एवमन्यत्रापि, मतान्तरबीजानि तु केवलिगम्यानीति ।
गोपुच्छसंठाण त्ति गोपुच्छो ह्यादौ स्थूलोऽन्ते सूक्ष्मस्तद्वत्तेऽपीति, सव्वंजणमय त्ति अञ्जनं कृष्णरत्नविशेषः, तन्मया:, सर्व एवानन्यमयत्वेन सर्वथैवाञ्जनमया: सर्वाञ्जनमयाः, परमकृष्णा इति भावः, उक्तं चभिंगंगरुइलकज्जलअंजणधाउसरिसा विरायंति । गगणतलमणुलिहंता अंजणगा पव्वया रम्मा ॥ [द्वीपसागर० ३७] इति ।
अच्छा: आकाशस्फटिकवत्, सण्हा सूक्ष्म [श्लक्ष्ण]परमाणुस्कन्धनिष्पन्ना: श्लक्ष्णदलनिष्पन्नपटवत्, लण्हा श्लक्ष्णा मसृणा इत्यर्थः, घुण्टितपटवत्, तथा घृष्टा इव घृष्टाः, खरशानया पाषाणप्रतिमावत्, मृष्टा इव मृष्टाः, सुकुमारशानया पाषाणप्रतिमेव, शोधिता वा प्रमार्जनिकयेव, अत एव नीरजस: रजोरहितत्वात्, निर्मला: कठिनमलाभावात् धौतवस्त्रवद्वा, निष्पङ्का आर्द्रमलाभावात् अकलङ्कत्वाद्वा, निक्कंकडच्छाया, निष्कङ्कटा निष्कवचा निरावरणेत्यर्थः छाया शोभा येषां ते तथा, अकलङ्कशोभा वा, सप्रभा देवान्दकत्वादिप्रभावयुक्ताः, अथवा स्वेन आत्मना प्रभान्ति न परत इति स्वप्रभा:, यत: समरिचीया सह मरीचिभि: किरणैर्ये ते तथा, अत एव सउज्जोया सहोद्योतेन वस्तुप्रभासनेन वर्तन्ते ये ते तथा, पासाईय त्ति प्रासादीया: मनस: प्रसादकरा:, दर्शनीयास्तांश्चक्षुषा पश्यन्नपि न श्रमं गच्छतीत्यर्थः, अभिरूपा: कमनीयाः, प्रतिरूपा: द्रष्टारं द्रष्टारं प्रति रमणीया इति यावत्शब्दसङ्ग्रहः । बहुसमा: अत्यन्तसमा रमणीयाश्च ये ते तथा, सिद्धानि शाश्वतानि सिद्धानां वा शाश्वतीनामहत्प्रतिमानामायतनानि स्थानानि सिद्धायतनानि, उक्तं च
अंजणगपव्वयाणं सिहरतलेसुं हवंति पत्तेयं ।
अरहंताययणाइं सीहणिसायाइं तुंगाइं ॥ [द्वीपसागर० ३९] मुखे द्वारे आयतनस्य मण्डपा मुखमण्डपा: पट्टशालारूपा:, प्रेक्षा प्रेक्षणकम्, तदर्थं गृहरूपा: मण्डपा: प्रेक्षागृहमण्डपा: प्रसिद्धस्वरूपा:, वैरं वज्रं रत्नविशेषस्तन्मया: आखाटका: प्रेक्षाकारिजनासनभूता: प्रतीता एव । विजयदूष्याणि वितानकरूपाणि वस्त्राणि, तन्मध्यभाग एवाऽङ्कुशा: अवलम्बननिमित्तम्, कुम्भो मुक्ताफलानां परिमाणतया विद्यते येषु तानि कुम्भिकानि मुक्तादामानि मुक्ताफलमाला:, कुम्भप्रमाणं