________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
३२१ तत्थ णं जे से दाहिणपच्चत्थिमिल्ले रतिकरगपव्वते तस्स णं चउदिसिं सक्कस्स देविंदस्स देवरन्नो चउण्हमग्गमहिसीणं जंबूदीवप्पमाणमेत्तातो चत्तारि रायहाणीओ पन्नत्ताओ, तंजहा- भूता, भूतवडेंसा, गोथूभा, सुदंसणा, अमलाते अच्छराते णवमिताते रोहिणीते ।
तत्थ णं जे से उत्तरपच्चत्थिमिल्ले रतिकरगपव्वते तस्स णं चउदिसिमीसाणस्स [देविंदस्स देवरन्नो] चउण्हमग्गमहिसीणं जंबूदीवप्पमाणमेत्तात्तो चत्तारि रायहाणीओ पन्नत्ताओ, तंजहा-रयणा, रतणुच्चता, सव्वरतणा, रतणसंचया, वसूते, वसुगुत्ताते, वसुमित्ताते, वसुंधराते ।
[टी०] उक्तं मनुष्यक्षेत्रवस्तूनां चतु:स्थानकमधुना क्षेत्रसाधान्नन्दीश्वरद्वीपवस्तूनामा सत्यसूत्राच्चतु:स्थानकं नंदीसरस्सेत्यादिना ग्रन्थेनाह, सूत्रसिद्धश्चायम्, केवलम्
जम्बू १ लवणे धायइ २ कालोये पुक्खराइ ३ जुयलाई ।
वारुणि ४ खीर ५ घतेक्खु ६-७ नंदीसर ८ अरुण ९ दीवुदही ॥ [बृहत्सं० ९२] ति गणनयाऽष्टमो नन्दीश्वरः, स एव वरः, अमनुष्यद्वीपापेक्षया बहुतरजिनभवनादिसद्भावेन तस्य वरत्वादिति, तस्य चक्रवालविष्कम्भस्य प्रमाणं १६३८४०००००, उक्त च
तेवढे कोडिसयं चउरासीइं च सयसहस्साई । नंदीसरवरदीवे विक्खंभो चक्कवालेणं ॥ [द्वीपसागर० २५] इति,
मध्यश्चासौ देशभागश्च देशावयवो मध्यदेशभागः, स च नात्यन्तिक इति बहुमध्यदेशभागो न प्रदेशादिपरिगणनया निष्टङ्कित:, अपि तु प्राय इति, अथवा अत्यन्तं मध्यदेशभागो बहुमध्यदेशभाग इति, तत्र । इहाऽञ्जनका: मूले दश योजनसहस्राणि विष्कम्भेणेत्युक्तम्, द्वीपसागरप्रज्ञप्तिसङ्ग्रहण्यां तूक्तम्
चुलसीति सहस्साइं उव्विद्धा ओगया सहस्समहे । धरणितले वित्थिन्ना य ऊणगा ते दससहस्सा ॥ नव चेव सहस्साइं पंचेव य होंति जोयणसयाई । अंजणगपव्वयाणं मूलम्मि उ होइ विक्खंभो ॥ कन्दस्येत्यर्थः, नव चेव सहस्साइं चत्तारि य होंति जोयणसयाई । अंजणगपव्वयाणं धरणियले होइ विक्खंभो ॥ [द्वीपसागर० २७, २९, ३१] इति,