________________
३१०
सर्वमादेशसर्वम् उपचारसमित्यर्थः, तथा निरवशेषतया अपरिशेषव्यक्तिसमाश्रयेण सर्वं निरवशेषसर्वम्, यथा अनिमिषाः सर्वे देवाः, न हि देवव्यक्तिरनिमिषत्वं काचिद् व्यभिचरतीत्यर्थः, सर्वत्र ककारः स्वार्थिको द्रष्टव्यः ।
[सू० २९८] माणुसुत्तरस्स णं पव्वयस्स चउद्दिसिं चत्तारि कूडा पन्नत्ता, तंजहा-रयणे, रतणुच्चते, सव्वरयणे, रतणसंचये ।
[टी०] अनन्तरं सर्वं प्ररूपितम्, तत्प्रस्तावात् सर्वमनुष्यक्षेत्रपर्यन्तवर्त्तिनि पर्वते सर्वासु तिर्यग्दिक्षु कूटानि प्ररूपयन्नाह- माणुसुत्तरस्सेत्यादि स्फुटम्, किन्तु चउद्दिसिं ति चतसृणां दिशां समाहारश्चतुर्दिक, तस्मिंश्चतुर्दिशि, अनुस्वारः प्राकृतत्वादिति, कूटानि शिखराणि, इह च दिग्रहणेऽपि विदिक्ष्विति द्रष्टव्यम्, तत्र दक्षिणपूर्वस्यां दिशि रत्नकूटं गरुडस्य वेणुदेवस्य निवासभूतम्, तथा दक्षिणापरस्यां दिशि रत्नोच्चयकूटं वेलम्बसुखदमित्यपरनामकं वेलम्बस्य वायुकुमारेन्द्रस्य सम्बन्धि, तथा पूर्वोत्तरस्यां दिशि सर्वरत्नकूटं वेणुदालिसुपर्णकुमारेन्द्रस्य, तथा अपरोत्तरस्यां रत्नसञ्चयकूटं प्रभञ्जनापरनामकं प्रभञ्जनवायुकुमारेन्द्रस्येति, एवं चैतद् व्याख्यायते द्वीपसागरप्रज्ञप्तिसङ्ग्रहण्यनुसारेण, यतस्तत्रोक्तम्
दक्खिणपुव्वेण, इत्यादि सर्वं वृत्तौ ज्ञेयम् । [सू० २९९] जंबूदीवे दीवे भरहेरवतेसु वासेसु तीताते उस्सप्पिणीए सुसमसुसमाते समाते चत्तारि सागरोवमकोडाकोडीओ कालो होत्था ।
जंबूदीवे दीवे भरहेरवतेसु वासेसु इमीए ओसप्पिणीए सुसमसुसमाए समाए चत्तारि सागरोवमकोडाकोडीओ कालो हुत्था । जंबूदीवे दीवे [भरहेरवएसु वासेसु] आगमेस्साते उस्सप्पिणीते सुसमसुसमाते समाए चत्तारि सागरोवमकोडाकोडीओ कालो भविस्सइ ।
जंबूदीवे दीवे देवकुरुउत्तरकुरुवजाओ चत्तारि अकम्मभूमीओ पन्नत्ताओ, तंजहा- हेमवते, हेरन्नवते, हरिवस्से, रम्मगवस्से । तत्थ णं चत्तारि वटवेयड्पव्वता पन्नत्ता, तंजहा-सद्दावई, वियडावई, गंधावई, मालवंतपरिताते।