________________
चतुर्थमध्ययनं चतुःस्थानकम् । द्वितीय उद्देशकः ।
३०९ चत्तारि सव्वा पन्नत्ता, तंजहा-नामसव्वते, ठवणसव्वए, आदेससव्वते, निरवसेससव्वते ।
[टी०] इहानन्तरमल्पबहुत्वमुक्तम्, तत्रात्यन्तमल्पमेकं शेषं त्वपेक्षया बह इत्यल्पबहुत्वाभिधायिन एक-कति-सर्वशब्दान् चतुःस्थानकेऽवतारयन् चत्तारीत्यादि सूत्रत्रयमाह ।
एकसङ्ख्योपेतानि द्रव्यादीनि स्वार्थिककप्रत्ययोपादानादेककानि, तत्र द्रव्यमेवैककं द्रव्यैककं सचित्तादिभेदात् त्रिविधमिति, माउएक्कए त्ति मातृकापदैककम्, एकं मातृकापदम्, तद्यथा उप्पन्ने इ वेत्यादि, इह प्रवचने दृष्टिवादे समस्तनयवादबीजभूतानि मातृकापदानि भवन्ति, तद्यथा- उप्पन्ने इ वा विगए इ वा धुवे इ वेति, अमूनि च मातृकापदानीव अ आ इत्येवमादीनि सकलशब्दशास्त्रार्थव्यापारव्यापकत्वान्मातृकापदानीति, पर्यायैककः एकः पर्यायः, पर्यायो विशेषो धर्म इत्यनर्थान्तरम्, स चानादिष्टो वर्णादिरादिष्टः कृष्णादिरिति, सङ्ग्रहैककः शालिरिति, अयमर्थः- सङ्ग्रहः समुदायः, तमाश्रित्यैकवचनगर्भशब्दप्रवृत्तिः, तथा चैकोऽपि शालिः शालिरित्युच्यते, बहवोऽपि शालयः शालिरिति, लोके तथादर्शनादिति, क्वचित् पाठः दविए एक्कए इत्यादि, तत्र द्रव्ये विषयभूते एकक इत्यादि व्याख्येयमिति ।
कतीति प्रश्नगर्भापरिच्छेदवत्सङ्ख्यावचनो बहुवचनान्तः, तत्र द्रव्याणि च तानि कति च द्रव्यकति, कति द्रव्याणीत्यर्थः, द्रव्यविषयो वा कतिशब्दो द्रव्यकतिः, एवं मातृकापदादिष्वपि, नवरं सङ्ग्रहाः शालि-यव-गोधूमा इत्यादि ।
नाम च तत्सर्वं च नामसर्वम्, सचेतनादेर्वा वस्तुनो यस्य समिति नाम तन्नामसर्वं नाम्ना सर्वं 'सर्वम्' इति वा नाम यस्येति विग्रहाद्, नामशब्दस्य च पूर्वनिपातः, तथा स्थापनया सर्वमेतदिति कल्पनया अक्षादि द्रव्यं सर्वं स्थापनासर्वम्, स्थापनैव वा अक्षादिद्रव्यरूपा सर्वं स्थापनासर्वम्, आदेशनमादेशः उपचारो व्यवहारः, स च बहुतरे प्रधाने वा आदिश्यते देशेऽपि, यथा विवक्षितं घृतमभिसमीक्ष्य बहुतरे भुक्ते स्तोके च शेषे उपचारः क्रियते ‘सर्वं घृतं भुक्तम्', प्रधानेऽप्युपचार: यथा ग्रामप्रधानेषु गतेषु पुरुषेषु सर्बो ग्रामो गतः' इति व्यपदिश्यते इति, अत आदेशतः