________________
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः ।
२६३ अनुदयावस्थः, तत्प्रतिपक्षोऽनुपशान्तः, एकेन्द्रियादीनामाभोगनिर्वर्त्तितः संज्ञिपूर्वभवापेक्षया, अनाभोगनिर्वर्तितस्तु तद्भवापेक्षयाऽपि, उपशान्तो नारकादीनां विशिष्टोदयाभावात्, अनुपशान्तो निर्विचार एवेति, एवं मानादिभिरपि दण्डकत्रयम् ।
[सू० २५०] जीवा णं चउहि ठाणेहिं अट्ठ कम्मपगडीओ चिणिंसु, तंजहा-कोहेणं, माणेणं, मायाए, लोभेणं । एवं जाव वेमाणियाणं २ । एवं चिणंति एस दंडओ, एवं चिणिस्संति एस दंडओ, एवमेतेणं तिन्नि दंडगा । एवं उवचिणिंसु उवचिणंति उवचिणिस्संति, बंधिंसु ३, उदीरिंसु ३, वेदेंसु ३, निजरेंसु णिजरेंति निजरिस्संति, जाव वेमाणियाणं । एवमेक्कक्के पदे तिन्नि तिन्नि दंडगा भाणियव्वा जाव निजरिस्संति ।
[टी०] इदानीं कषायाणामेव कालत्रयवर्तिनः फलविशेषा उच्यन्ते- जीवा णमित्यादि गतार्थम्, नवरं चयनं कषायपरिणतस्य कर्मापुद्गलोपादानमात्रम्, उपचयनं चितस्याबाधाकालं मुक्त्वा ज्ञानावरणीयादितया निषेकः, स चैवम्- प्रथमस्थितौ बहुतरं कर्मदलिकं निषिञ्चति, ततो द्वितीयायां विशेषहीनम्, एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति, उक्तं च
मोत्तूण सगमबाहं पढमाइ ठिईए बहुतरं दव्वं । सेसे विसेसहीणं जावुक्कोसंति सव्वेसिं ॥ [कर्मप्र० १।८३] ति ।
बन्धनं तस्यैव ज्ञानावरणीयादितया निषिक्तस्य पुनरपि कषायपरिणतिविशेषान्निकाचनमिति, उदीरणम् अनुदयप्राप्तस्य करणेनाकृष्योदये प्रक्षेपणमिति, वेदनं स्थितिक्षयादुदयप्राप्तस्य कर्मण उदीरणाकरणेन वोदयभावमुपनीतस्यानुभवनमिति, निर्जरा कर्मणोऽकर्मत्वभवनमिति, इह च देशनिर्जरैव ग्राह्या, सर्वनिर्जरायाश्चतुर्विंशतिदण्डकेऽसम्भवात्, क्रोधादीनां च तदकारणत्वात्, क्रोधादिक्षयस्यैव तत्कारणत्वादिति ।
सू० २५१] चत्तारि पडिमाओ पन्नत्ताओ, तंजहा-समाहिपडिमा, उवहाणपडिमा, विवेगपडिमा, विउसग्गपडिमा । चत्तारि पडिमाओ पन्नत्ताओ, तंजहा- भद्दा, सुभद्दा, महाभद्दा, सव्वतोभद्दा । चत्तारि पडिमातो पन्नत्ताओ, तंजहा-खुड्डिया मोयपडिमा, महल्लिया मोयपडिमा, जवमज्झा, वइरमज्झा।