________________
२६२
सापेक्षाणि च निरपेक्षाणि च कर्माणि फलविपाकेषु । सोपक्रमं च निरुपक्रमं च दृष्टं यथाऽऽयुष्कम् ॥ [ ] इति ।
अयं च चतुर्थभेदो जीवप्रतिष्ठितोऽपि आत्मादिविषयेऽनुत्पन्नत्वादप्रतिष्ठित उक्तः, न तु सर्वथा अप्रतिष्ठितः, चतुःप्रतिष्ठितत्वस्याभावप्रसङ्गादिति । एकेन्द्रिय-विकलेन्द्रियाणां कोपस्यात्मादिप्रतिष्ठितत्वं पूर्वभवे तत्परिणामपरिणतमरणेनोत्पन्नानामिति । एवं मानमाया-लोभैर्दण्डकत्रयमपरमध्येतव्यमिति । क्षेत्रं नारकादीनां ४ स्वं स्वमुत्पत्तिस्थानं प्रतीत्य आश्रित्य, एवं वस्तु सचेतनादि ३ वास्तु वा गृहम्, शरीरं दुःसंस्थितं विरूपं वा, उपधिर्यद्यस्योपकरणम्, एकेन्द्रियादीनां भवान्तरापेक्षयेति, एवं मानादिभिरपि दण्डकत्रयम् ।
अनन्तं भवमनुबध्नाति अविच्छिन्नं करोतीत्येवंशीलोऽनन्तानुबन्धी अनन्तो वाऽनुबन्धोऽस्येत्यनन्तानुबन्धी ।
न विद्यते प्रत्याख्यानम् अणुव्रतादिरूपं यस्मिन् सोऽप्रत्याख्यानो देशविरत्यावारकः, प्रत्याख्यानम् आ मर्यादया सर्वविरतिरूपमेवेत्यर्थो वृणोतीति प्रत्याख्यानावरणः, सज्वलयति दीपयति सर्वसावद्यविरतिमपीन्द्रियार्थसम्पाते वा सज्वलति दीप्यत इति सज्वलनः यथाख्यातचारित्रावारकः, एवं मान-माया-लोभेष्वप्यनन्तानुबन्ध्यादिभेदचतुष्टयमध्येतव्यमिति, एषां निरुक्तिः पूज्यैरियमुक्ता
अनन्तान्यनुबध्नन्ति यतो जन्मानि भूतये । अतोऽनन्तानुबन्ध्याख्या क्रोधाद्याद्येषु दर्शिता ॥ नाल्पमप्युत्सहेद्येषाम् प्रत्याख्यानमिहोदयात् । अप्रत्याख्यानसंज्ञाऽतो द्वितीयेषु निवेशिता ॥ सर्वसावद्यविरतिः प्रत्याख्यानमुदाहृतम् । तदावरणसंज्ञाऽतस्तृतीयेषु निवेशिता ॥ शब्दादीन् विषयान् प्राप्य सज्वलन्ति यतो मुहुः । अत: सज्वलनाह्वानं चतुर्थानामिहोच्यते ॥ [ ] इति ।
एवं मानादिभिरपि दण्डकत्रयम् । आभोगणिव्वत्तिए त्ति आभोगो ज्ञानं तेन निर्वतितो यज्जानन् कोपविपाकादि रुष्यति, इतरस्तु यदजानन्निति, उपशान्तः