________________
२४३
चतुर्थमध्ययनं चतुःस्थानकम् । प्रथम उद्देशकः । नाममेगे उन्नतपरिणते,चउभंगो ४, ४।
चत्तारि रुक्खा पन्नत्ता, तंजहा- उन्नते णाममेगे उन्नतरूवे, तहेव चउभंगो ४, ५ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा- उन्नते नामं० ४, ६।
चत्तारि पुरिसजाता पनत्ता, तंजहा- उन्नते नाममेगे उन्नतमणे, उन्न० ४, ७ । एवं संकप्पे ८, पन्ने ९, दिट्ठी १०, सीलाचारे ११, ववहारे १२, परक्कमे १३, एगे पुरिसजाए, पडिवक्खो नत्थि ।
चत्तारि रुक्खा पन्नत्ता, तंजहा- उज्जू नाममेगे उजू, उजू नाममेगे वंके, चउभंगो ४, १४ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा- उज्जू नाममेगे ४, १५ । एवं जहा उन्नतपणतेहिं गमो तहा उज्जुवंकेहि वि भाणियव्वो जाव परक्कमे २६ ।
[टी०] पुरुषविशेषाणामन्तक्रियोक्ता, अधुना तेषामेव स्वरूपनिरूपणाय दृष्टान्तदाान्तिकसूत्राणि षड्विंशतिमाह- चत्तारि रुक्खेत्यादि कण्ठ्यम्, किन्तु वृश्च्यन्ते छिद्यन्ते इति वृक्षाः, ते विवक्षया चत्वारः प्रज्ञप्ता भगवता, तत्र उन्नतः उच्चो द्रव्यतया, नामेति सम्भावने वाक्यालङ्कारे वा, एकः कश्चिद् वृक्षविशेषः, स च पुनरुन्नतो जात्यादिभावेनाऽशोकादिरित्येको भङ्गः, उन्नतो नाम द्रव्यत एव एकः अन्यः प्रणतो जात्यादिभावैहीनो निम्बादिरित्यर्थः इति द्वितीयः, प्रणतो नामैको द्रव्यतः खर्च इत्यर्थः, स एव उन्नतो जात्यादिना भावेनाशोकादिरिति तृतीयः, प्रणतो द्रव्यत एव खर्चः स एव प्रणतो जात्यादिहीनो निम्बादिरिति चतुर्थः, अथवा पूर्वमुन्नतः तुङ्गः अधुनाऽप्युन्नतस्तुङ्ग एवेत्येवं कालापेक्षया चतुर्भङ्गीति १, एवमित्यादि, एवमेव वृक्षवच्चत्वारि पुरुषजातानि पुरुषप्रकारा अनगारा अगारिणो वा, उन्नतः पुरुषः कुलैश्वर्यादिभिलौकिकगुणैः शरीरेण वा गृहस्थपर्याये, पुनरुन्नतो लोकोत्तरैर्ज्ञानादिभिः प्रव्रज्यापर्याये, अथवा उन्नत उत्तमभवत्वेन पुनरुन्नतः शुभगतित्वेन कामदेवादिवदित्येकः, तहेव त्ति वृक्षसूत्रमिवेदम्, जाव त्ति यावत् पणए नामं एगे पणए त्ति चतुर्थभङ्गकस्तावद् वाच्यम्, तत्र उन्नतस्तथैव प्रणतस्तु ज्ञान-विहारादिहीनतया दुर्गतिगमनाद्वा, शिथिलत्वे शैलकराजर्षिवत् ब्रह्मदत्तवद्वेति द्वितीयः, तृतीयः पुनरागतसंवेगः शैलकवत् मेतार्यवद्वा,