________________
२४२ स्वामित्वेनेति चातुरन्त:, स चासौ चक्रवर्ती चेति स तथा, स हि प्राग्भवे लघूकृतका सर्वार्थसिद्धविमानाच्च्युत्वा चक्रवर्तितयोत्पद्य राज्यावस्थ एव केवलमुत्पाद्य कृतपूर्वलक्षप्रव्रज्यः अतथाविधतपोवेदन एव सिद्धिमुपगत इति प्रथमान्तक्रियेति १ ।
अहावरे त्ति(ति?) अथ अनन्तरमपरा पूर्वापेक्षया याऽन्या द्वितीयस्थानेऽभिधानात् द्वितीया महाकर्मभिः गुरुकर्मभिर्महाकर्मा सन् प्रत्यायातः प्रत्याजातो वा यः स तथा, तस्स णमिति, तस्य महाकर्मप्रत्याजातत्वेन तत्क्षपणाय तथाप्रकारं घोरं तपो भवति, एवं वेदनाऽपि, कर्मोदयसम्पाद्यत्वादुपसर्गादीनामिति, निरुद्धेनेति अल्पेन, यथाऽसौ गजसुकुमारो विष्णुलघुभ्राता, स हि भगवतोऽरिष्टनेमिजिननाथस्यान्तिके प्रव्रज्यां प्रतिपद्य श्मशाने कृतकायोत्सर्गलक्षणमहातपाः शिरोनिहितजाज्वल्यमानाऽङ्गारजनितात्यन्तवेदनोऽल्पेनैव पर्यायेण सिद्धवानिति, शेषं कण्ठ्यम् २ ।
अहावरेत्यादि कण्ठ्यम्, यथाऽसौ सनत्कुमार इति चतुर्थचक्रवर्ती, स हि महातपा महावेदनश्च सरोगत्वात् दीर्घतरपर्यायेण सिद्धः, तद्भवे सिद्ध्यभावेन भवान्तरे सेत्स्यमानत्वादिति ३ ।
अहावरेत्यादि कण्ठ्यम्, यथाऽसौ मरुदेवी प्रथमजिनजननी, सा हि स्थावरत्वेऽपि क्षीणप्रायकर्मत्वेनाल्पकर्मा अविद्यमानतपोवेदना च सिद्धा, गजवरारूढाया एवायु:समाप्तौ सिद्धत्वादिति ४ । एतेषां च दृष्टान्त-दार्टान्तिकानामर्थानां न सर्वथा साधर्म्यमन्वेषणीयम्, देशदृष्टान्तत्वादेषाम्, यतो मरुदेव्या मुण्डे भवित्तेत्यादिविशेषणानि कानिचिन्न घटन्ते, अथवा फलतः सर्वसाधर्म्यमपि मुण्डनादिकार्यस्य सिद्धत्वस्य सिद्धत्वादिति ।
[सू० २३६] चत्तारि रुक्खा पन्नत्ता, तंजहा- उन्नते णाममेगे उन्नते १, उन्नते णाममेगे पणते २, पणते णाममेगे उन्नते ३, पणते नाममेगे पणते ४,१ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा- उन्नत्ते नाममेगे उन्नते तहेव, जाव पणते नाममेगे पणते, २॥
चत्तारि रुक्खा पन्नत्ता, तंजहा- उन्नते नाममेगे उन्नतपरिणते १, उण्णते नाममेगे पणतपरिणते २, पणते णाममेगे उन्नतपरिणते ३, पणए नाममेगे पणयपरिणए ४,३ । एवामेव चत्तारि पुरिसजाता पन्नत्ता, तंजहा- उन्नते