________________
२४०
जीवाजीवद्रव्यपर्याया उक्ता इहापि त एवोच्यन्ते, इत्यनेन सम्बन्धेनायातस्यास्य चतुरुद्देशकस्य चतुरनुयोगद्वारस्य सूत्रानुगमे प्रथमोद्देशकादिसूत्रमेतत्- चत्तारि अंतकिरियेत्यादि ।
अस्य चायमभिसम्बन्धः- अनन्तरोद्देशकस्योपान्त्यसूत्रे कर्मणश्चयाद्युक्तमिह तु कर्मणस्तत्कार्यस्य वा भवस्यान्तक्रियोच्यत इति । अथवा श्रुतं मयाऽऽयुष्मता भगवतैवमाख्यातम् [ सू०१] इत्यभिधाय यत्तदाख्यातं तदभिहितं तथेदमपरं तेनैवाख्यातं यत्तदुच्यत इत्येवंसम्बन्धस्यास्य व्याख्या– अन्तक्रिया भवस्यान्तकरणम्, तत्र यस्य न तथाविधं तपो नापि परीषहादिजनिता तथाविधा वेदना दीर्घेण च प्रव्रज्यापर्यायेण सिद्धिर्भवति तस्यैका १, यस्य तु तथाविधे तपोवेदने अल्पेनैव च प्रव्रज्यापर्यायेण सिद्धिः स्यात् तस्य द्वितीया २, यस्य च प्रकृष्टे तपोवेदने दीर्घेण च पर्यायेण सिद्धिस्तस्य तृतीया ३, यस्य पुनरविद्यमानतथाविधतपोवेदनस्य हूस्वपर्यायेण सिद्धिस्तस्य चतुर्थीति,
अन्तक्रियाया एकस्वरूपत्वेऽपि सामग्रीभेदात् चातुर्विध्यमिति समुदायार्थः । ___ अवयवार्थस्त्वयम्- चतस्रोऽन्तक्रियाः प्रज्ञप्ता भगवतेति गम्यते, तत्रेति सप्तमी निर्धारणे, तासु चतसृषु मध्ये इत्यर्थः, खलुर्वाक्यालङ्कारे, इयमनन्तरं वक्ष्यमाणत्वेन प्रत्यक्षासन्ना प्रथमा, इतरापेक्षया आद्या अन्तक्रिया, इह कश्चित् पुरुषः देवलोकादौ यात्वा ततोऽल्पैः स्तोकैः कर्मभिः करणभूतैः प्रत्यायातः प्रत्यागतो मानुषत्वम् इति अल्पकर्मप्रत्यायातो य इति गम्यते, अथवा एकत्र जनित्वा ततोऽल्पकर्मा सन् यः प्रत्यायातः स तथा, लघुकर्मतयोत्पन्न इत्यर्थः, चकारो वक्ष्यमाणमहाकापेक्षया समुच्चयार्थः, अपि: सम्भावने, सम्भाव्यतेऽयमपि पक्ष इत्यर्थः, भवति स्यात्, स इति असौ, णं वाक्यालङ्कारे, मुण्डो भूत्वा द्रव्यतः शिरोलोचेन भावतो रागाद्यपनयनेन अगाराद् द्रव्यतो गेहाद्भावतः संसाराभिनन्दिनां देहिनामावासभूतादविवेकगेहाद् निष्क्रम्येति गम्यते, [अनगारिताम्, अगारी गृही असंयतः, तत्प्रतिषेधादनगारी संयतः, तद्भावस्तत्ता, तां साधुतामित्यर्थः,] प्रव्रजित: प्रगतः, प्राप्त इत्यर्थः, किंभूत इत्याह संजमबहुले त्ति संयमेन पृथिव्यादिसंरक्षणलक्षणेन बहुलः प्रचुरो यः स तथा, संयमो वा बहुलो यस्य स तथा, एवं संवरबहुलोऽपि, नवरमाश्रवनिरोधः संवरः,