________________
प्रथममध्ययनम् एकस्थानकम् । लोकव्यवस्था ह्यलोके तद्विपक्षभूते सति भवतीति तमाह- एगे अलोए, एकोऽनन्तप्रदेशात्मकत्वेऽप्यविवक्षितभेदत्वादलोको लोकव्युदासात्, न त्वलोकनीयतया, केवलालोकेन तस्याप्यालोक्यमानत्वादिति ।।
[सू० ६] एगे धम्मे । एगे अधम्मे ।। [टी०] लोकालोकयोश्च विभागकारणं धर्मास्तिकायोऽतस्तत्स्वरूपमाह- एगे धम्मे, एकः प्रदेशार्थतयाऽसङ्ख्यातप्रदेशात्मकत्वेऽपि द्रव्यार्थतया तस्यैकत्वात्, जीव-पुद्गलानां स्वाभाविके क्रियावत्त्वे सति गतिपरिणतानां तत्स्वभावधारणाद् धर्मः, स चास्तीनां प्रदेशानां सङ्घातात्मकत्वात् कायोऽस्तिकाय इति । ___धर्मस्यापि विपक्षस्वरूपमाह - एगे अधम्मे, एको द्रव्यत एव, न धर्मोऽधर्मः अधर्मास्तिकाय इत्यर्थः, धर्मो हि जीव-पुद्गलानां गत्युपष्टम्भकारी, अयं तु तद्विपरीतत्वात् स्थित्युपष्टम्भकारीति । ननु धर्मास्तिकाया-ऽधर्मास्तिकाययोः कथमस्तित्वावगमः ?, प्रमाणादिति ब्रूमः, तच्चेदम् इह गतिः स्थितिश्च सकललोकप्रसिद्ध कार्यम्, कार्यं च परिणाम्यपेक्षाकारणायत्तात्मलाभं वर्त्तते, घटादिकार्येषु तथादर्शनात्, इत्यादि वृतौ इति।
[सू० ७] एगे बंधे । एगे मोक्खे । [टी०] आत्मा च लोकवृत्तिर्धा-ऽधर्मास्तिकायोपगृहीतः सदण्डः सक्रियश्च कर्मणा बध्यत इति बन्धनिरूपणायाह- एगे बंधे, बन्धनं बन्धः, सकषायत्वात् जीवः कर्मणो योग्यान् पुद्गलान् आदत्ते यत् स बन्ध इति भावः, स च प्रकृति-स्थिति-प्रदेशाऽनुभावभेदात् चतुर्विधोऽपि बन्धसामान्यादेकः, मुक्तस्य सतः पुनर्बन्धाभावाद्वा एको बन्ध इति । अथवा द्रव्यतो बन्धो निगडादिभिर्भावतः कर्मणा, तयोश्च बन्धनसामान्यादेको बन्ध इति । ___ अनादिबन्धसद्भावेऽपि भव्यात्मनः कस्यचिन्मोक्षो भवतीति मोक्षस्वरूपमाह- एगे मोक्खे, मोचनं कर्मपाशवियोजनमात्मनो मोक्षः, आह च– कृत्स्नकर्मक्षयान्मोक्षः [तत्त्वार्थ० १०॥३], स चैको ज्ञानावरणादिकर्मापेक्षयाऽष्टविधोऽपि मोचनसामान्यात् मुक्तस्य वा पुनर्मोक्षाभावात् ईषत्प्राग्भाराख्यक्षेत्रलक्षणो वा द्रव्यार्थतयैकः । अथवा द्रव्यतो मोक्षो निगडादितो भावतः कर्मतस्तयोश्च मोचनसामान्यादेको मोक्ष इति ।