________________
१६२
[टी०] उक्तानेव धर्मविशेषांस्त्रिधा बोधिशब्दाभिधेयान् १ बोधिमतो २ बोधिविपक्षभूतं मोहं ३ तद्वतश्च ४ सूत्रचतुष्टयेनाह- तिविहेत्यादि सुबोधम्, किन्तु बोधिः सम्यग्बोधः, इह च चारित्रं बोधिफलत्वात् बोधिरुच्यते, जीवोपयोगरूपत्वाद्वा । बोधिविशिष्टाः पुरुषास्त्रिधा ज्ञानबुद्धादय इति, एवं मोहे मूढ त्ति बोधिवद् बुद्धवच्च मोहो मूढाश्च त्रिविधा वाच्याः, तथाहि– 'तिविहे मोहे पण्णत्ते, तंजहा-नाणमोहे' इत्यादि, 'तिविहा मूढा पन्नत्ता, तंजहा-णाणमूढे'त्यादि ।
[सू० १६५] तिविहा पव्वजा पन्नत्ता, तंजहा-इहलोगपडिबद्धा, परलोगपडिबद्धा, दुहतो पडिबद्धा १।
तिविहा पव्वजा पन्नत्ता, तंजहा-पुरतो पडिबद्धा, मग्गतो पडिबद्धा, दहओ पडिबद्धा २॥ तिविधा पव्वजा पन्नत्ता, तंजहा-तुयावइत्ता, पुयावइत्ता, बुआवइत्ता ३॥
तिविहा पव्वजा पन्नत्ता, तंजहा-ओवातपव्वज्जा, अक्खातपव्वज्जा, संगारपव्वज्जा ४।
[टी०] चारित्रबुद्धाः प्रागभिहिताः, ते च प्रव्रज्यायां सत्याम्, अतस्तां भेदतो निरूपयन्नाह- तिविहेत्यादि सूत्रचतुष्टयं सुगमम्, केवलं प्रव्रजनं गमनं पापाच्चरणव्यापारेष्विति प्रव्रज्या, एतच्च चरणयोगगमनं मोक्षगमनमेव, कारणे कार्योपचारात्, तन्दलान् वर्षति पर्जन्य इत्यादिवदिति ।
इहलोकप्रतिबद्धा ऐहलौकिकभोजनादिकार्यार्थिनाम्, परलोकप्रतिबद्धा जन्मान्तरकामाद्यर्थिनाम्, द्विधाप्रतिबद्धा इहलोक-परलोकप्रतिबद्धा सा चोभयार्थिनामिति, पुरत: अग्रतः प्रतिबद्धा प्रव्रज्यापर्यायभाविषु शिष्यादिष्वाशंसनतः प्रतिबन्धात्, मार्गत: पृष्ठतः स्वजनादिषु स्नेहाच्छेदात्, तृतीया द्विधाऽपीति । तुयावइत्त त्ति तुद व्यथने (पा०या० १२८२] इति वचनात् तोदयित्वा तोदं कृत्वा व्यथामुत्पाद्य या प्रव्रज्या दीयते मुनिचन्द्रपुत्रस्य सागरचन्द्रेणेव सा तथोच्यते, पुयावइत्त ति, प्लुङ् गतौ ! पाouTo ९५८] इति वचनात् प्लावयित्वा अन्यत्र नीत्वा आर्यरक्षितवद् या दीयते सा तथेति,