________________
तृतीयमध्ययनं त्रिस्थानकम् । द्वितीय उद्देशकः ।।
१६१ [सू० १६३] ततो जामा पन्नत्ता, तंजहा-पढमे जामे, मज्झिमे जामे, पच्छिमे जामे । तिहिं जामेहिं आता केवलिपन्नत्तं धम्मं लभेज सवणताते, तंजहा-पढमे जामे, मज्झिमे जामे, पच्छिमे जामे । एवं जाव केवलनाणं उप्पाडेजा पढमे जामे, मज्झिमे जामे, पच्छिमे जामे ।
ततो वया पन्नत्ता, तंजहा-पढमे वते, मज्झिमे वते, पच्छिमे वते । तिहिं वतेहिं आता केवलिपन्नत्तं धम्मं लभेज्ज सवणयाए, तंजहा-पढमे वते, मज्झिमे वते, पच्छिमे वते, एसो चेव गमो णेयव्वो जाव केवलनाणं ति।
[टी०] अनन्तरं पर्षदुपपन्नदेवाः प्ररूपिताः, देवत्वं च कुतोऽपि धर्मात्, तत्प्रतिपत्तिश्च कालविशेषे भवतीति कालविशेषनिरूपणपूर्वं तत्रैव धर्मविशेषाणां प्रतिपत्तीराह- तओ जामेत्यादि स्पष्टम्, केवलं यामो रात्रेर्दिनस्य च चतुर्थभागो यद्यपि प्रसिद्धस्तथाऽपीह त्रिभाग एव विवक्षितः पूर्वरात्र-मध्यरात्रा-ऽपररात्रलक्षणो यमाश्रित्य रात्रिस्त्रियामेत्युच्यते, एवं दिनस्यापि, अथवा चतुर्थभाग एव सः, किन्त्विह चतुर्थो न विवक्षितः, त्रिस्थानकानुरोधादित्येवमपि त्रयो यामा इत्यभिहितम्, [तिहिमित्यादि]- सुगमं, नवरं एवं जाव त्ति करणादिदं दृश्यम्- 'केवलं बोहिं बुज्झेज्जा, मुंडे भवित्ता अगाराओ अणगारियं पव्वएज्जा, केवलं बंभचेरवासमावसेज्जा, एवं संजमेणं संजमेज्जा, संवरेणं संवरेज्जा, आभिणिबोहियनाणं उप्पाडेज्जा' इत्यादि । यथा कालविशेषे धर्मप्रतिपत्तिरेवं वयोविशेषेऽपीति तन्निरूपणतस्तत्र धर्मविशेषप्रतिपत्तीराह- तओ वयेत्यादि स्फुटम्, किन्तु प्राणिनां कालकृतावस्था वय उच्यते, तत् त्रिधा बाल-मध्यम-वृद्धत्वभेदादिति, वयोलक्षणं चेदम्
आ षोडशाद्भवेद्बालो यावत् क्षीरान्नवर्तकः । मध्यमः सप्ततिं यावत् परतो वृद्ध उच्यते ॥ [ ] शेषं प्राग्वत् । [सू० १६४] तिविधा बोधी पन्नत्ता, तंजहा-णाणबोधी, दंसणबोधी, चरित्तबोधी १। तिविहा बुद्धा पन्नत्ता, तंजहा-णाणबुद्धा, दंसणबुद्धा, चरित्तबुद्धा २। एवं मोहे ३ मूढा ४।