________________
९७
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः । धातकीखण्डस्तद्युक्तो यो द्वीपः स धातकीखण्ड एवोच्यते, यथा दण्डयोगाद्दण्ड इति, धातकीखण्डश्चासौ द्वीपश्चेति धातकीखण्डद्वीपस्तस्य पुरत्थिमं ति पौरस्त्यं पूर्वमित्यर्थो यदर्दू विभागस्तद्धातकीखण्डद्वीपपौरस्त्यार्द्धम्, पूर्वापरार्द्धता च लवणसमुद्रवेदिकातो दक्षिणत उत्तरतश्च धातकीखण्डवेदिकां यावद् गताभ्यामिषुकारपर्वताभ्यां धातकीखण्डस्य विभक्तत्वादिति, उक्तं चपंचसयजोयणुच्चा सहस्समेगं तु होति वित्थिन्ना । कालोयलवणजले पुट्ठा ते दाहिणुत्तरओ ॥ दो इसुयारनगवरा धायइसंडस्स मज्झयारठिया । तेहिं दुहा णिहिस्सइ पुव्वद्धं पच्छिमद्धं च ॥ [बृहत्क्षेत्र० ३।४-५] इति । तत्र णमिति वाक्यालङ्कारे, मन्दरस्य मेरोरित्येवं धातकीखण्डपूर्वार्द्धपश्चिमार्द्धप्रकरणे प्रत्येकमेकोनसप्ततिसूत्रप्रमाणे जम्बूद्वीपप्रकरणवदध्येतव्ये व्याख्येये च, अत एवाहएवं जहा जंबूदीवे तहेत्यादि, नवरं वर्षधरादिस्वरूपमायामादिसमता चैवं भावनीया
पुव्वद्धस्स य मज्झे मेरू तस्स पुण दाहिणुत्तरओ। वासाइं तिन्नि तिन्नि विदेहवासं च मज्झम्मि ॥ इत्यादि विस्तरार्थो वृत्तितो ज्ञेयो यावद् वेदिकासूत्रं जम्बूद्विपवत्।
धातकीखण्डानन्तरं कालोदसमुद्रो भवतीति तद्वक्तव्यतामाह- कालोदेत्यादि सुगमम्, पुष्करवरद्वीपस्य वक्तव्यतामाह- पुक्खरेत्यादि, त्रीण्यप्यतिदेशप्रधानानि, अतिदेशलभ्यश्चार्थः सुगम एव, नवरं पूर्वार्धा-ऽपरार्द्धता धातकीखण्डवदिषुकाराभ्यामवगन्तव्या, भरतादीनां चायामादिसमतैवं भावनीया– विस्तरो वृत्तितो ज्ञेयः।
पुष्करद्वीपवेदिकाप्ररूपणानन्तरं शेषद्वीप-समुद्रवेदिकाप्ररूपणामाह- सव्वेसिं पि णमित्यादि कण्ठ्यम् ।
[सू० १०५] दो असुरकुमारिंदा पण्णत्ता, तंजहा-चमरे चेव बली चेव। दो णागकुमारिंदा पण्णत्ता, तंजहा-धरणे चेव भूयाणंदे चेव २। दो सुवन्नकुमारिंदा पन्नत्ता, तंजहा-वेणुदेवे चेव वेणुदाली चेव ३। दो विजुकुमारिंदा पण्णत्ता, तंजहा-हरिच्चेव हरिस्सहे चेव ४। दो अग्गिकुमारिंदा