________________
द्वितीयमध्ययनं द्विस्थानकम् । तृतीय उद्देशकः ।
पूषणौ २६, अश्विनौ २७, यमाविति २८, ग्रन्थान्तरे पुनरश्विनीत आरभ्यता एवमुक्ताः,
अश्वियमदहनकमलजशशिशूलभृददितिजीवफणिपितरः । योन्यर्यमदिनकृत्त्वष्ट्रपवनशक्राग्निमित्राख्याः ॥ ऐन्द्रो निर्ऋतिस्तोयं विश्वे ब्रह्मा हरिर्वसुर्वरुणः । अजपादोऽहिर्बुध्न्यः पूषा चेतीश्वरा भानाम् ॥ [वाराही० बृहत्संहिता ९७।४-५]
अङ्गारकादयोऽष्टाशीतिर्ग्रहाः सूत्रसिद्धाः, केवलमस्मदृष्टपुस्तकेषु केषुचिदेव यथोक्तसङ्ख्या संवदतीति सूर्यप्रज्ञप्त्यनुसारेणासाविह संवादनीया, तथाहि तत्सूत्रम्इत्यादि वृत्तितो ज्ञेयम्।
[सू० ९६] जंबूदीवस्स णं दीवस्स वेइया दो गाउयाइं उटुंउच्चत्तेणं पण्णत्ता। [टी०] जम्बूद्वीपाधिकारादेवेदमपरमाह- जंबू इत्यादि कण्ठ्यम्, नवरं वज्रमय्याः अष्टयोजनोच्छ्रायायाश्चतुर्द्वादशोपर्यधोविस्तृताया जम्बूद्वीपनगरप्राकारकल्पाया जगत्या द्विगव्यूतोच्छ्रितेन पञ्चधनुःशतविस्तृतेन नानारत्नमयेन जालकटकेन परिक्षिप्ताया उपरि वेदिकेति पद्मवरवेदिकेत्यर्थः, पञ्चधनुःशतविस्तीर्णा गवाक्षहेमकिङ्किणीघण्टायुक्ता देवानामासन-शयन-मोहन-विविधक्रीडास्थानमुभयतो वनखण्डवतीति ।
[सू० ९७] लवणे णं समुद्दे दो जोयणसयसहस्साई चक्कवालविक्खंभेणं पण्णत्ते । [सू० ९८] लवणस्स णं समुद्दस्स वेतिया दो गाउयाई उटुंउच्चत्तेणं पन्नत्ता।
[टी०] जम्बूद्वीपवक्तव्यतानन्तरं तदनन्तरत्वादेव लवणसमुद्रवक्तव्यतामाह- लवणे णमित्यादि कण्ठ्यम्, नवरं चक्र वालस्य मण्डलस्य विष्कम्भः पृथुत्वं चक्रवालविष्कम्भस्तेनेति, समुद्रवेदिकासूत्रं जम्बूद्वीपवेदिकासूत्रवद्वाच्यमिति ।
[सू० ९९] धायइसंडे दीवे पुरथिमद्धे णं मंदरस्स पव्वयस्स उत्तरदाहिणेणं दो वासा पन्नत्ता बहुसमतुल्ला जाव भरहे चेव एरवए चेव, एवं जहा जंबूदीवे तहा एत्थ वि भाणियव्वं जाव दोसु वासेसु मणुया छव्विहं पि कालं पच्चणुभवमाणा विहरंति, तंजहा-भरहे चेव एरवते चेव । णवरं कूडसामली चेव धायइरुक्खे चेव, देवा गरुले चेव वेणुदेवे, सुदंसणे चेव।