________________
ॐ प्रज्ञानं ब्रह्म। (ऋग्वेदमहावाक्य) [Sपासना-स्तुति विष्णु : शान्ताकारं भुजगशयनं पद्मनाभं सुरेशं
विश्वाधारं गगनसदृशं मेघवर्णं शुभाङ्गम् । लक्ष्मीकान्तं कमलनयनं योगिभिर्ध्यानगम्यं
वन्दे विष्णुं भवभयहरं सर्वलोकैकनाथम् ॥ ६ ॥ शिव : ध्यायेन्नित्यं महेशं रजतगिरिनिभं चारुचन्द्रावतसं
रत्नाकल्पोज्ज्वलाङ्गं परशुमृगवराभीतिहस्तं प्रसन्नम् । पद्मासीनं समन्तात् स्तुतममरगणैाघकृत्तिं वसानं
विश्वाचं विश्ववन्धं निखिलभयहरं पञ्चवक्रं त्रिनेत्रम् ॥ ७ ॥ सूर्य : ध्येयः सदा सवितृमण्डलमध्यवर्ती
नारायणः सरसिजासनसन्निविष्टः । केयूरवान्मकरकुण्डलवान्किरीटी
हारी हिरण्मयवपुर्धतशङ्खचक्रः ॥ ८॥ सद्गुरु : ब्रह्मानन्दं परमसुखदं केवलं ज्ञानमूर्ति
द्वन्द्वातीतं गगनसदृशं तत्त्वमस्यादिलक्ष्यम् । एकं नित्यं विमलमचलं सर्वधीसाक्षिभूतं भावातीतं त्रिगुणरहितं सद्गुरुं तं नमामि ॥ ९ ॥ गुरुर्ब्रह्मा गुरुर्विष्णुर्गुरुर्देवो महेश्वर : ।
गुरुः साक्षात्परब्रह्म तस्मै श्रीगुरवे नमः ॥ १० ॥ विराटपुरुष : नमोऽस्त्वनन्ताय सहस्रमूर्तये सहस्रपादाक्षिशिरोरुबाहवे ।
सहस्रनाम्ने पुरुषाय शाश्वते सहस्रकोटीयुगधारिणे नमः ॥ ११ ॥ गुरुभक्ति : यस्य देवे पराभक्तिर्यथा देवे तथा गुरौ ।
तस्यैते कथिता ह्याः प्रकाशन्ते महात्मन: ॥ १२ ॥ क्षमा : करचरणकृतं वाकायजं कर्मजं वा
श्रवणनयनजं वा मानसं वाऽपराधम् । विहितमविहितं वा सर्वमेतत्क्षमस्व
जय जय करुणाब्वे श्रीमहादेव शम्भो ॥ १३ ॥ ईशगुणवर्णनम् : असितगिरिसमं स्यात्कज्जलं सिन्धुपात्रे
सुरतरुवरशाखा लेखिनी पत्रमुर्वी । लिखति यदि गृहीत्वा शारदा सर्वकालं तदपि तव गुणानामीश पारं न याति ॥ १४ ॥