________________
ગીતાહન ] તેમ ઈન્દ્ર, વાયુ અને મૃત્યુ એ પાંચે તેના નિયમમાં રહી પોતાનું નિયત કાર્ય કરે છે. [ ૯૧૧
भनाचारोद्भवं पापमवाच्यादिकृतं च यत् । अभक्ष्मभक्षजं दोषमस्पृश्यस्पर्शजं तथा ॥ ३४ ॥ ज्ञानाज्ञानकृतं नित्यमिन्द्रियजनितं च यत् । तत्सर्व माशमायाति गीतापाठेन तत्क्षणात् ॥३५॥ सर्वत्र प्रतिभोका च प्रतिगृह्य च सर्वशः । गीतापाठं प्रकुर्वाणो न लिप्येत कदाचन ॥३६॥ रत्नपूर्णी महीं सी प्रतिगृह्याविधानतः । गीतापाठेन चैकेन शुद्धस्फटिकवत्सदा ॥३७॥ यस्यान्तःकरणं नित्यं गीतायां रमते सदा । स साग्निकः सदा जापी क्रियावान् स च पण्डितः ॥३८॥ दर्शनीयः स धनवान् स योगी ज्ञानवानपि । स एव याज्ञिको याजी सर्ववेदार्थदर्शकः ॥३९॥ गीतायाः पुस्तकं यत्र नित्यपाठश्च वर्तते । तत्र सर्वाणि तीर्थानि प्रयागादीनि भूतले ॥४०॥ निवसन्ति सदा देहे देहशेषेऽपि सर्वदा । सर्वे देवाश्च ऋषयो योगिनो देहरक्षकाः ॥४१॥ गोपालो बालकृष्णोऽपि नारदध्रुवपार्षदैः । सहायो जायते शीघ्र यत्र गीता प्रवर्तते ॥ ४२ ॥ यत्र गीताविचारश्च पटनं पाठनं तथा । मोदते यत्र भगवान् कृष्णो राधिकया सह ॥४३॥
श्रीभगवानुवाच । गीता मे हृदयं पार्थ गीता मे सारमुत्तमम् । गीता मे ज्ञानमत्युग्रं गीता मे ज्ञानमव्ययम् ॥४४॥ गीता मे चोत्तम स्थानं गीता मे परमं पदम् । गीता मे परमं गुह्यं गीता मे परमो गुरुः ॥४५॥ गीताश्रयेऽहं तिष्ठामि गीता मे परमं गृहम् । गीताज्ञानं समाश्रित्य त्रिलोकी पालयाम्यहम् ॥४६॥ गीता मे परमा विद्या ब्रह्मरूपा न सशयः । अर्द्धमात्रा परा नित्यमनिर्वाच्यपदात्मिका ॥४॥ गोतानामानि वक्ष्यामि गुह्यानि भृणु पाण्डव । कीर्तनात्सर्वपापानि विलयं यान्ति तत्क्षणात् ॥४८॥ गङ्गा गोता च गायत्रो सीता सत्या सरस्वती । ब्रह्मवल्लो ब्रह्मविद्या त्रिसन्ध्या मुक्तिगेहिनी ॥४९॥ अर्द्धमात्रा चिदानन्दा भवघ्नो भ्रान्तिनाशिनी । वेदत्रयी परानन्दा तत्त्वार्थज्ञानमञ्जरी ॥५०॥ इत्येतानि जपेन्नित्यं नरो निश्चलमानसः । ज्ञानसिद्धि लभेन्नित्यं तथान्ते परमं पदम् ॥ ५१ ॥ पाठेऽसमर्थ. सम्पूर्णे तदधै पाठमाचरेत् । तवा गोदान पुण्यं लभते नात्र सशयः ॥५२॥
त्रिभाग पठमानस्तु सोमयागफलं लभेत् । षडश जपमानस्तु गङ्गास्नानफलं लभेत् ॥५३॥ तथाध्यायद्वयं नित्यं पठमानो निरन्तरम् । इन्द्रलोकमवाप्नोति कल्पमेकं वसेद् ध्रुवम् ॥५४॥ एकमध्यायकं नित्यं पठते भक्तिसश्युतः । रुद्रलोकमवाप्नोति गणो भूत्वा वसेञ्चिरम् ॥५॥ अध्यायाध च पादं वा नित्यं यः पठते जनः । प्राप्नोति रविलोकं स मन्वन्तरसमाः शतम् ॥५६॥ गीतायाः प्रलोकदशकं सप्तपञ्चचतुष्टयम् । त्रिव्येकमेकमध वा श्लोकानां यः पठेन्नरः । चन्द्रलोकमवाप्नोति वर्षाणामयुतं तथा ॥५॥ गोतार्थमेकपादं च श्लोकमध्यायमेव च स्मरस्त्यक्त्वा जनो देहं प्रयाति परमं पदम ॥५॥ गीतार्थमपि पाठं वा भृणुयादन्तकालतः । महापातकयुक्तोऽपि मुक्तिभागी गवेजनः ॥५९॥ गीतापुस्तकसयुक्तः प्राणा५स्त्यक्त्वा प्रयाति यः । स वैकुण्ठमवाप्नोति विष्णुना सह मोदते ॥६॥ . गीताध्यायसमायुक्तो मृतो मानुषतां व्रजेत् । गीताभ्यास पुनः कृत्वा लभते मुक्ति मुत्तमाम् ॥३१॥ गीतेत्युच्चारसयुक्तो म्रियमाणो गति लमेत् । यदाकर्म च सर्वत्र गीतापाटप्रकीर्तितम् । तत्तत्कर्म च निर्दोष भृत्वा पूर्णत्वमाप्नुयात् ॥६२॥ पितृनुद्दिश्य यः श्राद्ध गीतापाठं करोति हि । सन्तुष्टाः पितरस्तस्य निरयाद्यान्ति स्वर्गतिम ॥६॥ गीतापाठेन सन्तुष्टाः पितरः श्राद्धतपिताः । पितृलोकं प्रयान्त्येव पुत्राशीर्वादतत्सराः ॥६॥ गीतापुस्तकदानं च धेनुपुन्छसमन्वितम् । कृrग च तद्दिने सम्यक कृतार्थो जायते जनः ॥६५॥ पुस्तक हेमसयुक्तं गीतायाः प्रकरोति यः । दत्वा विप्राय विदुषे जायते न पुनभवम् ॥६६॥ शतपुस्तकदानं च गीतायाः प्रकरोति यः । स याति ब्रह्मसदनं पुनरावृत्तिदुलभम् ॥६॥ गीतादानप्रभावेण सप्तकल्पमिताः समा । विष्णुलोकमवाप्यान्ते विष्णुना सह मोदते ॥६॥ सम्यक्त्वा च गीतार्थे पुस्तकं य: प्रदापयेत् । तस्मै प्रोतः श्रोभगवान् ददाति मानसेप्सितम् ॥६९॥ देहं मानुषमाश्रित्य चातुवर्येषु भारत । न शृणोति न पठति गोताममृतरूपिणीम् । हस्तात्त्यक्त्वामृत. प्राप्तं स न। विषमश्नुते ॥७॥ जनः ससारदुःखा” गीताज्ञानं समालमेत् । पीत्वा गीतामृतं लोके लम्चा भक्ति सुखीभवेत् ॥१॥
P
-