________________
४८
द्वितीयो मुक्तक 'पिण्डेऽथ कितवे द्यूते दुरोदर इति श्रुतिः । दीप्तौं दृष्टौ च तारासु ज्योतिःशब्दोऽभिधीयते ॥ ४३ 'रोगातभाग्यमूढाल्पा मन्दाः प्रोक्ता विचक्षणैः। शास्त्रं प्रमाणमिच्छन्ति स्थितिहेतुं च कोविदाः ॥ ४४ *हरिणः पाण्डुरो वर्णः कुरङ्गो हरिणो मतेः। करटः कातरो ज्ञेयः करटो ध्वास उच्यते ॥ कङ्करेटुः स्मृतो गृध्रः कङ्करेटुरमर्षणः । पध्विं बन्धनमिच्छन्ति प्राध्वं प्रध्वं च सूरयः ॥ सौधावयवविज्ञानगमनेषु कला मता। तुषारः क्षुद्रपाषाणस्तुषारस्तुषवेणिषु ॥ मणिः कोलिंजरो ज्ञेयो मणिको मणिरेव च। विषं पानीयमित्युक्तं विषमन्तकरो रसः ॥ वाजमन्नं गरुद् वाजो' वाजं पीयूषमिष्यते । व्रजो गोष्ठो व्रजो माग्गों व्रजः संघो व्रजो गणः॥४९ वीर्य शुक्रं बलं वीर्य वीर्य बीजमुदाहृतम् । नक्षत्रस्य मघा नाम कुन्दस्य कलिका मघा ॥ द्विजिहः सूचको ज्ञेयो द्विजिहस्तु भुजंगमः । विज्ञेयं शयनं शय्या शय्या पुस्तकसंचयः॥ तरसं मांसमाख्यातं तरसं बलमुच्यते । वारुणी मदिरा ज्ञेया पश्चिमा दिक् [च वारुणी ॥ ५२ . मन्दुरा वाजिशाला स्यादावासोण" च मन्दुरा। सूतृतः शिक्षितो मायः सूनृतः सत्यवाक स्मृतः ॥ ५३ "कीकसो वानरोऽभि(पि) स्यात् कीर्यते चास्थि कीकसम् ।
रोमन्थः स्यात् पशूद्गारो रोमन्थः कीटवर्तनम् ॥ ५४ १ Comits this verse. २ B व्यतिरे(१). ३ Comits this verse. ४ Cgives this line after the second line of st. 46. ५ B. णः स्मृतः । ६ C. सरटो. ७ B. कंकारंटुः « C gives this line before the first line of st. 45. ९ C. सुषारः. १० C. णः सु. ११ B. वाजं. १२ B. गोठं. १३ C. पुष्पस्य. १४ C. दिशि. १५ B. C. सोऽपि. १६ C gives this verse after the next one, १७ B. 'इमिक्षः .