________________
अक्षरकाण्डे नानालिङ्गाध्यायः ।
स्यादू दासी नीलझिण्य्यामप्यथ दाशो द्वयोरयम् । भृत्यकैवर्तयोस्तत्र स्त्र्यर्थे दाश्यथ नृस्त्रियोः ॥ ९८६ ॥ दाने (द्वे ! च) स्त्री तु दाशात्र दशायोगिनि तु त्रिषु । दान्त (स्तु ! स्त्रि) दमिते दान्तियुक्ते दान्तविकारके ॥ ९८७ ॥ स्त्र्यर्थे तु पूर्वयोर्दान्ता वाच्ययोरुत्तमे पुनः । व्यर्थे दान्ती दमनके पुनर्दान्तौ च तन्नपि ॥ १८८ ॥
दाक्षस्त्रिर्वक्ष सम्बन्धिन्यधन्यायां तु स्त्रियामियम् । कपिलायां भवेद् दाक्षी दायस्तु त्रिषु दातरि ॥ १८९ ॥ ना तु दाने विभक्तव्य पित्रादिद्रविणे तथा । अजयस्त्वाह सोल्लुण्ठभाषिते रक्षणादिषु ॥ १९० ॥ यातकादिधने चाथ दाव आयुक्तके त्रिषु । ना यज्ञेऽन्यस्तु दाने कीत्याह दाकस्तु दातरि ॥ ५९१ ॥
त्रिद्वे तु यजमाने स्याद् दानुस्तु त्रिषु दातरि । द्वयोस्तु यजमाने ना त्वर्के वातेऽप्यथो नपि ॥ १९२॥
पुंस्यप्यन्ये दारु काष्ठे की पुनर्देवदारुणि । दार्वी दारुहरिद्रायां स्त्री द्विजस्तु द्वयोर्भवेत् ॥ ५९३ ॥
ब्रह्मक्षत्रियविट्स्वण्डजातेषु दशनेषु ना । द्विजा तु स्त्री हरेण्याख्यगन्धद्रव्ये द्विकं पुनः ॥ १९४ ॥
आत्मद्वये क्लब का तु द्वे स तु त्रिषु । सङ्घे द्विपरिमाणे स्याद् द्वाभ्यां क्रीतादिकेष्वपि ॥ १९५ ॥ दिग्धस्तु विषलिप्तेषौ त्रिषु लिप्तप्रवृद्धयोः । क्ली स्यादुपचये नेहेऽप्याहेदं वैजयन्तिका ॥ १९६ ॥
दिव्यं की व्योम्नि लशुने गाने तन्त्रीसमुद्भवे । प्रत्यये च त्रि तु दिवि भवे दिष्टस्त्वनेहसि ।। ५९७ ॥
१. 'घ्या' म. पाठः
'घ्ना' ङ. पाठः.