________________
ध्यक्षरकाण्डे नानालिङ्गाध्यायः। चूडायां यादवाचार्यो ना तु केशः शिरोरुहे । रश्मौ भगे च क्लीबं तु हीबेरे श्वेडवार पुनः ॥ २८१ ॥ लतायां स्यात् सुविख्याता राजकोशातकीति या । विषे ध्वनौ च ना योधसिंहनादे तु सा स्त्रियाम् । २८२ ॥ क्ष्वेडा वंशशलाकायामपि क्षेत्रं पुनर्नपि । लवणे स्यादूषरजे क्षेत्रसाधौ तु तत् त्रिषु ॥ २८३ ॥ केशी केशवति त्रिः स्याद् दैत्यभेदे तु नाथ सा । केशिनी स्त्री चोरपुष्पीसंज्ञस्तम्बेऽथ कोशवाक् ॥ २८४ ।। अस्त्री स्यात् कुनले दिव्ये विशेषे गेहदेहयोः । धनौघे वेष्टकद्रव्ये पुस्तकासिपिधानयोः ॥ २८५ ॥ शास्त्रे प्रजनने पेश्यां वृषणेऽपि च केचन । कृमिभेदस्य नाडे च कौशेयप्रकृती तथा ॥ २८६ ॥ कृताकृते हेमरूप्ये सुषिरे सज्जनस्त्वमुम् । रन्ध्रे चारङ्ग(!)इत्याह स्त्री तु कोशी विवक्षिते ॥ २८७ ।। तनुत्ते न पुमांस्त्वेष मेधे कोलं पुनर्नपि । व्योषेऽर्ध; तक्कोले शुण्ठ्यां च बदरीफले ॥ २८८ ॥ स्त्रियां तु कोला पिप्पल्यां (शाश) से चव्याख्यभेवजे । ना तु भेलकसंज्ञे स्यात् प्लवे सौरों द्वयोः पुनः ॥ २८९ ।। वराहे मूषिके त्रिस्तु खञ्जे कोष्ठस्तु न स्त्रियाम् । कुसूलेऽन्तर्गृहे चान्तःकुक्षौ स्वीयेऽ यधीयते ॥ २९० ॥ कोको द्वे चक्रवाके च स्यादीहामृगसंज्ञके । मृगान्तरे च ना त्वेष आदाने ना तु कोणवाक् ॥ २९१ ॥ शनैश्चरेऽश्री लगुडे शब्दे कोणा तु नृस्त्रियोः ।
वाद्यवादनदण्डे द्वे महिषे क्षोमवाक् पुनः ॥ २९२ ॥ १. 'न' ख, इ. पाठः. २. 'न्ध' क. घ. पाटः, ३. 'पा' इ. पाः।