________________
निवेदना।
नानार्थार्णवसंक्षेपो नामायं कश्चिन्निघण्टुग्रन्थः । अस्य संशोधनाधारनया षड् आदर्शाः कैरलीलिपयस्तालपत्रात्मका आसादिताः । यथा
(क) कैलासपुरगोविन्दपिधारोटिसकाशादधिगतः । (ख) राजकीयग्रन्थशालास्थः कार्तिकीशब्दान्तः । (ग) राजकीयग्रन्यशालास्थः । (घ) कण्णिकुळं नीलकण्ठनम्पूरिसंबन्धी यामशब्दान्तः । (ड) एण्णकाटुराजराजवर्मराजसकाशादधिगतः । (च) कण्णिकुळं नीलकण्ठनम्पूरिसम्बन्धी भूजम्बूशब्दमारभ्य ।
अत्र नानार्थानि सलिङ्गानि नामानि एकस्वरादीनि षट्स्वरपर्यन्तानि षड्भिः काण्डैः संगृहीतानि । प्रतिकाण्डं च स्त्रीलिङ्ग - पुल्लिङ्ग - नपुंसकलिङ्ग - वाच्यलिङ्ग - नानालिङ्गभेदेन पञ्चाध्यायाः । अत्र जिज्ञासितम्य शब्दम्य सुखदर्शनार्थमकारादिक्रम आदिवर्णप्वादृतः । अमरकोशादिम्वनुपलव्धाः शब्दा अर्थाश्च बहुलमितोऽध्येतुं शक्याः ।
राजेन्द्रचोळसंज्ञाग्रहारवास्तव्यश्छन्दोगः केशवस्वामी चोळाधिपतेः श्रीकुलोत्तुङ्गचाळसूनोः श्रीराजराजदेवस्य चोदनया ग्रन्थमेनं प्रणिनायत्येतत्पूर्वपीठिकातोऽवगम्यते । अत एव राजराजसंवन्धाद 'राजगजीयम्' इत्यप्यस्य ग्रन्थस्य संज्ञान्तरम् । चोळवंशचरितसंग्रह क्रस्ताब्दस्य द्वादशशतके स्थित एकः कुलोत्तुङ्गचाळः कथितः, तत्पुत्र एको गजराजश्च । त्रयोदशशतकपूर्वाधे स्थितोऽपरः कुलोत्तुङ्गो वर्णितः, तत्सूनुरपरश्च राजराजः । राजराजयोरेनयोरन्यतरः केशवस्वामिन आश्रयः कामं सम्भाव्यते ।
* अयं द्रमिलभाषाग्रन्थः टि. ए. गोपीनाथराय ( एम.ए.) महाशयन अनन्तशयनराजकीयपुरातनवस्तुविचार कार्यालया यक्षेण प्रणाय प्रकाशितः