________________
यक्षरकाण्डे नपुंसकलिङ्गाध्यायः । गन्धद्रव्येऽथ शैत्यं स्यान्नैशित्ये शौक्लयकायॆयोः । शीतलत्वे च शोचिस्तु पै(शङ्ग)ल्ये* शु(द्धिःग्वि)शुद्धयोः ॥६६॥ रश्मौ ज्वलति शुद्धत्वेऽप्यथ शौर्यमिति ध्वनिः । उमात् तृतीयराशौ च शक्त्यायबले तथा ॥ १७ ॥ शूरस्य भावक्रिययोरथ सस्यमिति ध्वनिः । वृक्षादीनां फले धान्ये धान्यस्तम्भे गुणे त्वमुम् ॥ ६८ ॥ जयादित्योऽवददथो सत्रमाच्छादने वने । द्वादशाहादियज्ञेषु सदादानेऽथ सविधवाक् ॥ ६९ ॥ ऊरौ च शकटाङ्गे च कस्मिंश्चिदथ समवाक् । गृहे जले च रोदस्योः समनी इत्यथो जले ॥ ७० ॥ आज्ये च सर्पिः स्नानं तु मानीयाप्लवयोरथ । साम प्रगीतमन्त्रेषु सान्त्वसामप्रभेदयोः ॥ ७१ ॥ साधुन्यथ जले स्रोतः प्रवाहे सरितामपि । अम्भसो निर्गमद्वार इन्द्रियेऽप्यथ हर्यवाक् ॥ ७२ ॥ प्रासादपृष्ठ इत्येके गृहभेदे गृहेऽपि च । हरः क्रोधे जले लोके ज्योतिषि ज्वलति सजि ॥ ७३ ॥ अमिसामविशेषेषु पञ्चस्वथ हविर्धते । हव्ये जलेऽथ होत्वं स्याद् यजमानसुमुद्रयोः ॥ ७४ ॥ होमहव्येऽग्निहोत्रस्य शालायां चेत्यपूर्ययम् ॥ ७४३ ॥
इति यक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
१. 'च' क. घ. ङ. पाठः.
२. 'वै' ख. घ. पाट:. ३. 'हि' ख. ड., 'हि' ग. पाठ:.
• 'शोचिः शोकांशुपैङ्गल्यशुद्धत्वेषु' (पु. २२६, श्लो. ३५) इति वैजयन्ती।