________________
यक्षरकाण्डे नपुंसकलिङ्गाध्यायः ।
वृक्षपत्रे केकिपिञ्छेऽप्यथ बीजं फलास्थान । अन्ने रेतस्यपत्ये च हेतावङ्कुरकारणे ॥ ४४ ॥ स्वर्णवेतनयोर्भर्म भर्गस्तेजसि रेतसि । भुवः सूर्ये लोकभेदे महस्तूत्सवतेजसोः ॥ ४५ ॥ जले चाथ मुखं वक्रे मुख्ये ताम्राभ्युपाययोः । आदौ निस्सरणे गेहपुरादीनां च सैन्धवे ॥ ४६ ॥
J
द्वारेऽथ देहिनां बीजे मेदो धातौ चतुर्थके । यशस्तु सत्त्वख्यातिश्रीज्ञानमाहात्म्यवारिषु ॥ ४७ ॥ धनप्रतापयोश्चाथ यजुर्यज्ञोत्सवे तथा । मन्त्रजातिविशेषे च योक्रं त्वङ्गुलियोऋयोः ॥ ४८ ॥ रत्नं स्वजातिश्रेष्ठे च माणिक्यादिमणावपि । समाम्नाये समाम्न्नासीद्धने च सलिलेऽपि च ॥ ४९ ॥ रजस्तु शरदि स्त्रीणां पुष्पे रेणौ जले स्रजि । सत्त्वाद्यन्यतमे रात्रौ लोहे तेजसि रेतसि || ५० ॥
अहन्यथ रहश्शब्दो मैथुने विजने तु तत् । अव्ययं वाथ राधः स्यात् प्ररूढे च धनेऽपि च ॥ ५१ ॥
रिमं दुःखे च पापे चेत्यामनन्ति विचक्षणाः । रेतः शुक्रे जले चाथ रोधस्तीरान्तरिक्षयोः ॥ ५२ ॥
वरणे बन्धने कुड्ये रोधसी इति रोदसोः । ललं पल्लव उद्याने लक्ष्म चिह्नप्रधानयोः ॥ ५३ ॥ स्यादुपच्छन्दने लालं गुह्यार्थ परभार्ययोः । लिङ्गं बुद्ध्यादिसंहत्यां साङ्ख्यानां प्रकृतावपि ॥ ५४ ॥
स्त्रीपुंसादौ च संस्थाने शरीरे चिह्नशेफयोः । प्रव्रज्यायामवयवे वेषेऽप्यथ वनं जले ॥ १५ ॥
१. 'कू' ख. पाठः. २. 'के' ख. पाटः. ३. 'ले'. क. ग. घ. पाठः.
३७