________________
३५
द्वयक्षरकाण्डे नपुंसकलिङ्गाध्यायः । त्वचि चिह्न त्वभिज्ञाने पताकायामथो हृदि । प्रज्ञायामपि चित्तं स्याच्चोचं तु स्यात् तरुत्वचि ॥ २२ ॥ भृङ्गाख्यगन्धद्रव्येऽथच्छद्मस्खलितयोश्छलम् । छन्दः श्रुतीच्छापद्येषु सामगानां विशेषके ॥ २३ ॥ अनूहूसामग्रन्थेऽथेच्छद्म सद्मनि कैतवे । छदिस्तु पटले गेहे जन्म तूत्पत्तितोययोः ॥ २४ ॥ जीलं करकपत्र्यां स्यात् कोशे चर्मपुटे हतौ । ... तन्त्रं स्वराष्ट्रव्यापारे तन्तुवान परिच्छदे ॥२५॥ शास्त्रौषधान्त्रमुख्येषु प्रयोगेऽध्वरकर्मणाम् । एकस्यैवोभयार्थत्वे कुटुम्बव्यापृतावपि ॥ २६ ॥ सेनायां सामसूत्रे च सिद्धान्तेऽन्यकुटुम्बके ।। क्रतुर्कीमाभिवादानामृक्सामानां समागमे ।। २७ ।। तल्पं शय्याट्टदारेषु मङ्गे* युद्धेऽप्यथ त्रषु । वङ्गे सीसेऽप्यथ तरो बले देगे तनुमित्वदम् ॥ २८ ॥ विस्तारे च शरीरे च तेजस्तु बलतोययोः । नवनीतेऽनले धर्मे ज्योतिष्यचिंषि रेतसि ॥ २९ ॥ प्रभावे पौरुषे सत्त्वे ज्वलत्यन्नात्मनोरपि । तोकं पुत्रे च पुत्र्यां च द्रव्यं त्वर्थे गुणाश्रये ॥ ३० ॥
औषधे पित्तले योग्यऋक्सामेविष्टिगामिपु । दानं हस्तिमदे त्यागे खण्डने लवने क्षये ॥ ३१ ॥
१. 'तः' क. ख. घ, पाठः. २. 'च' क. ग. घ. पाठः. ३. 'ये' क. घ. पाटः, 'पे' ख. ङ पाठः. ४. 'कर्माभि' ग. पाठः. .. 'पी' क. घ. पE:.
* 'तन्त्र स्वराष्ट्रव्यापारे तन्तुवाने परिच्छदै' (पु. २२४. श्लो. ११) इति वैजयन्ती । * नौशिरसि ।