________________
ध्यक्षरकाण्डे पुल्लिङ्गाध्यायः।
शम्बो वजे लोहमये वलये मुसलाग्रगे। अरित्रेऽर्थान्तरेऽप्यस्ति शम्बबीजात् कृषावित ॥ ११ ॥ शण्डो नपुंसके दनि चेत्येकेषामिदं मतम् । एष च प्रतिपत्तव्यस्तालव्योष्मादिवर्णकः ॥ ११८ ॥ शक्रः कुटजवृक्षे च महेन्द्रेऽप्यथ शम्भुवाक् । हरे हरौ विरिश्चे च स्यादर्हत्यथ शापवाक् ॥ ११९ ॥ आक्रोशे शपथे चाथ शास्ता बुद्धे गुरौ नृपे । महाशास्तरि च स्यात् तु शिपिः किरणशेफयोः ।। १२० ॥ अथ शुक्षिर्निदाघे स्यान्मातरिश्वनि चाप्यथ । श्लेष्मा कफे चर्मणश्च विकारे दृढकाह्वये ॥ १२१ ॥ रथस्य शीघ्रवहनसाधने चापि वस्तुनि । श्लोकः पद्ये यशोवाचोः षण्ड इट्चरपण्डयोः ॥ १२२ ।। इत्यन्येषां मतं सोऽयं मूर्धन्योष्मादिरीरितः । एष वर्षवरे नीलवृषोत्सर्गे च कीर्तितः ॥ १२३ ॥ षिद्गो वेश्यापतावुक्तो वेश्याचार्येऽपि कैश्चन । ष्ठ्यूमश्चन्द्रे जले रश्मौ तन्तौ मङ्गल इत्यपि ॥ १२४ ॥ वैजयन्त्यामपाठ्येवं तच्चास्मभ्यं न रोचते । यथा स पठितुं युक्तस्तथान्त्याध्याय ईक्ष्यताम् ॥ १२५ ॥ सर्गोऽध्याये खभावे च निर्माणे च समुज्झने । उत्साहे निश्चये चाथ स्कन्धः समुदये चये ।। १२६ ।। अंसे महीपतौ वृक्षमहाविटपमूलके । स्कन्दो विरिश्चे तीरे च नद्याः स्तम्वस्तु संहतौ ॥ १२७ ।। तृणे च विटपे चाथ स्तम्भः स्यात् प्रतिबन्धने । स्थूणायां च जडीभावे स्पर्शस्तु प्रणिधौ युधि ॥ १२८ ॥ 1. 'च' क. घ. पाठः. * 'कृो द्वितीयतृतीयशम्बबीजात् कृषौ' (५. ४. ५०) खम्बशन्दः प्रतिलोये।