________________
२४
नानार्थार्णवसंक्षेपे प्रज्ञायां ग्रहभेदे च किरणे क्लेदुवाक् पुनः ।। भने चन्द्रे शरीरे च क्षेत्रेऽथौषधिचन्द्रयोः ॥३६॥ मुखप्रसेके च क्लेदः क्षोदो रजसि चूर्णने । क्षोदशब्दः समाम्नाये पठितो जलवाचकः ॥ ३७॥ कोरो वृक्षाङ्कुरे बालपुप्प चाथ खुरः शफे । शुक्तिसंज्ञोषधे चाथ खेदिः स्यात् किरणे तथा ॥२८॥ रश्मौ तुरङ्गमस्याथ गर्भोऽपवरकालये ।
अन्नेऽग्नौ कुक्षिकुक्षिस्थजन्त्वोः पनसकण्टके ॥३९॥ शिशावपत्ये शुक्रे च समूहे सारबीजयोः । गन्धस्तु गन्धवद्रव्ये चन्दनादौ महीगुणे ॥ ४० ॥ घ्राणस्य विषये लेशे तथा सम्बन्धि ? न्ध)मात्रके । गणो बहुत्वसङ्ख्यायां गणने प्रमथे बजे ॥४१॥ ऋषिभेदे सैन्यभेदे गुल्माख्यात् त्रिगुणे * ध्वनौ । अजयस्य त्विदं ग्रन्थे दृश्यते प्रमथे चले ॥ ४२ ॥ इत्येवं तस्य याथात्म्यं समूलत्वं च चिन्त्यताम् । गर्तस्तु स्यात् सभास्थाणौ मन्दिरेऽप्यवटेऽपि च ॥१३॥ ग्रन्थस्तु शास्त्रे द्रविणे द्वात्रिंशद्वर्णसञ्चये । वचस्यथ प्रन्थिरिक्षवेण्वादेः काण्डयोर्द्वयोः ॥४४॥ सन्धौ ग्रन्थनदेशे च रज्जवस्त्रादिवस्तुनः । रोगभेदेऽप्यथ गरुत् पक्षिपक्षे च तेजसि ॥४५॥ सङ्घाते च जवे चाथ ग्रामो गीतिस्वरान्तरे । शब्दभूतादिपूर्वस्तु बजे संवसथे तथा ॥४६॥
१. 'के' क. ग. घ. पाठः.
+ 'गन्धः सम्बन्धलेशयोः' इति हैमः । * 'त्रैगुण्यात् स्युर्यथाक्रमम् । सेनामुन गुल्मगौ' (पु. १... छो. ५७, ५८) इति वैजयन्ती ।