________________
द्वयक्षरकाण्डे पुल्लिङ्गाध्यायः। छेदने कारणौपम्याधिवासेष्वथ कर्ववाक् । अपाठि निष्पत्तिक्षेत्रे कन्दर्प चेति कैश्चन ॥ २४ ॥ कलिविभीतके तस्य फलेऽनर्थे च संयुगे । कलिर्निश्रीरिति प्राह शब्दविच्छाकटायनः ॥ २५ ॥ विवादमात्रे त्वजयः कलिशब्दमभाषत । युगे चतुर्थे चालक्ष्म्यां कलरूपेषु धातुषु ॥२६॥ कपिर्निकषपाषाणे धातौं स्यात् कषतावपि । अश्वकर्णाख्यवृक्षे च काष्ठे चाथ क्रतुर्मखे ॥२७॥ प्रज्ञाक्रियासङ्कल्पेष्वप्यथ काचोऽक्षिसंभवे । उपतापविशेषे स्यात् तथा मृद्भेदशिक्ययोः ॥२८॥ शिलायां चाथ काशिः स्यान्मुष्टौ काशाह्वये तृणे । धातौ च काशतौ भूम्नि त्वेष स्यान्नीवृदन्तरे ॥२९॥ किणो रूढव्रणस्थाने तथा स्यादासनान्तरे । लक्षणं चासनस्यास्य वैजयन्त्यां यथाभ्यधात् ॥ ३०॥ पद्मासनस्यै पदयोः पाणिना पृष्ठगामिना । वामेन दक्षिणाङ्गुष्ठं वामं त्वन्येन पीडयेत् ॥३१॥ वेतालासनमित्येतदेकाङ्गुष्ठग्रहात् किणः । क्षुरस्तु कोकिलाक्षाख्यस्तम्ने गोक्षुरनानि च ॥३२॥ नापितस्योपकरणे कुटिस्तु वृषलालये । पापे वृक्षेऽपि कु-स्तु समुद्रे पर्वतेऽपि च ॥३३॥ कृतिस्तुन्देऽन्तरुदरपार्श्वयोरपि दृश्यते । इक्ष्वाकोः पूर्वराजस्य पुत्रे कस्मिंश्चिदप्यसौ ॥३४॥ कूष्मा तु वाताभावे च शल्ये च क्षेपवाक् पुनः । क्षिप्तिनिन्दावहेलेषु केतुस्तु ध्वजचिह्नयोः ॥३५॥
१. 'म' क. घ. पाठः, २. "ति' ख. पाठः. ३. 'ली' क. घ. पाठः. ४. 'स्थ' स. पाठ.. ५. 'ठि' क. ख. घ. पाठः. 1. 'कुष्टा तु' ख, पाठः.