________________
चतुरक्षरकाण्डे स्त्रीलिङ्गाध्यायः ।
इत्येवं पृथुपाषाणे प्रसिद्धैव महाशिला । महासहा माषपयों स्तम्बे चाम्लानसंज्ञके ॥ ४२ ॥ मधुपर्णी तु काष्मर्यगुडूचीनीलिनीपु च । मन्दाकिनी स्यादाकाशगङ्गायामापगान्तरे ॥ ४३ ॥ मुखशोभा वेदशालिमुखे कान्तौ मुखस्य च ।, रङ्गमाता तु कुट्टन्यां लाक्षायां चाजयोदिता ॥ ४४ ॥ राजकन्या तु कन्यायां राज्ञोऽपि च नपुंसके । नपुंसकस्य संज्ञासु वररुच्युदिता बसौ ॥ ४९ ॥ (शासे ?) केसरमालाख्ये स्यात् तु राजसभाध्वनिः । राष्ट्रेऽपि राज्ञ आस्थाने व्याख्याकारेण केनचित् ॥ ४६ ॥ व्याख्यातोऽमरकोशस्य ह्यशालार्थेषु का कथा | ललाटिका ललाटस्थपत्राङ्गुल्यां तथैव च ॥ ४७ ॥ सा भवेत् पत्रपाश्यायामथापि स्याद् वराङ्गना । मुख्यायामङ्गनायां च तालीसंज्ञमहाद्रुमे ॥ ४८ ॥ वरस्त्रियां वरारोहा महोदर्याख्यमुस्तके | मल्लिकाया विशेषे च देवमल्लीति विश्रुते ॥ ४९ ॥ अत्रे[क्तं सज्जनेनेदं व्यर्था इत्यधिकृत्य यत् । वरिवस्या परीष्टौ स्यादिति तत् संशयास्पदम् ॥ ५० ॥ विष्णुक्रान्ता तु सुमुखीगिरिकर्णिकयोरपि । शतहूदा तु तडिति तद्भेदे मरिचे पुनः ॥ ५१ ॥
श्यामवल्ली लतायां च श्यामायामथ कथ्यते ।
मल्लिकायां (शेष ? श्लेष्म) घिना केतक्यां चाजयेन हि ॥ ५२ ॥
१. 'तु' ग. पाठः. २. 'नां' क च पाठः.
+ 'अथ श्लेष्मघना मयां केतक्यामपि योषिति' इति मेदिनी । 'श्लेष्मघना तु केतक्यां मलयाम्' इति हेमचन्द्रश्च ।