SearchBrowseAboutContactDonate
Page Preview
Page 215
Loading...
Download File
Download File
Page Text
________________ त्र्यक्षरकाण्डे नानालिङ्गाध्यायः । पुलिनं तु विजानीयात् स्तम्बे सलिलसम्भवे । दन्तबीज इति ख्याते शृङ्गारी तु पुमानयम् ॥ १८५३ ॥ पूगवृक्षे सुवेषे तु त्रिरथो श्लेष्मलः पुमान् । गोधूमधान्ये त्रिषु तु श्लेष्मवच्छ्रेष्मकारिणोः || १८९४ ॥ श्लेष्मनी तु स्त्रियामुक्ता पिण्यामल्ल्योर्मनीषिणा । रभसेन त्रिषु त्वेष श्लेष्मणो हन्तरि स्मृतः ॥ १८५९ ॥ शैलूषस्तु नटे द्वे स्यात् कितवे च पुमान् पुनः । शण्डजातौ च बिल्वे च शैशवं तु नपुंसकम् ॥ १८५६ ॥ शिशुत्वेऽप्युभयोः सानोरुश्चैतागीतयोस्त्रि तु । शिशुसम्बन्धिनि क्ली तु शैलेयं तार्क्ष्यशैलके ।। १८५७ ॥ कालानुसौर्यसंज्ञे च धातुभेदे तथैव तत् । सिन्धूत्थलवणे द्वे तु मधुपे स्यात् त्रिषु त्वतः ॥ १८५८ ॥ शैवली शैवलवति स्त्री तु शैवलिनी धुनौ । शैलाटस्तु द्वयोः सिंहे किराते च पुमान् पुनः ॥ १८५९॥ देवले शुक्लकाचे च रभसेनेदमीरितम् । अथ क्ली शोभनं हेम्नि धातोरर्थे च शोभ (ने ! तेः) ॥ १८६० ॥ त्रि तु स्यात् सुन्दरे क्ली तु शोधनं शुद्धिकर्मणि । अना तु शोधयत्यर्थे शोधना ना तु शोधनः || १८६१ ॥ अङ्कोलवृक्षे स्त्री तु स्यात् सम्मार्जन्यां हि शोधनी । त्रिस्तु स्यात् साधने शुद्धेः शोषकस्तु पुमानयम् ।। १८६२ ॥ वास्तुदेवविशेषे स्यात् कोष्ठश्रेणी हि पश्चिमे । आरभ्य दक्षिणात् कोष्ठात् काष्ठे तिष्ठति सप्तमे ॥ १८६३ ॥ यस्तत्र त्रिः पुनः शोष्ट्ट्र्शो"यित्रोरथो पुमान् । करजभेदे षड्ग्रन्थः षड्ग्रन्था तु स्त्रियामियम् || १८६४ ॥ १ 'बा' इ. ब. पाठ:- २. 'का' ग. पाठः. ३. 'तु' च. पाठः. २०९
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy