________________
- ध्यक्षरकाण्डे नानालिङ्गाध्यायः ।
उलूपीसंज्ञके चापि जलजन्तौ पुमान् पुनः । द्रुमभेदे स्त्रियां तु स्याच्छिशुका +++++ ॥ १८३० ॥ शिथिलं त्वदृढे त्रिस्याच्छिथिली तु स्त्रियामियम् । बम्रिकासदृशे पिङ्गवर्णे कीटान्तरे भवेत् ॥ १८३१ ॥
अयोमले तु शिङ्खाणं, कीबलिङ्गं प्रतीयताम् । नासाले तु स पुमान् शिखण्डस्तु पुमानयम् || १८३२ ॥ मयूरपिच्छे स्त्री तु स्याच्छिलायां हि शिखण्डयसौ । शिखण्डी तु द्वयोर्ज्ञेयो मयूरेऽपि च कुकुटे ॥ १८३३ ॥
शिखण्डिनी तु स्त्री यूथ्यां गुजायां च पुमान् पुनः । कलायसंज्ञे धान्येऽपि रमसः प्रोक्तवानमुम् ।। १८३४ ॥
ऋषिभेदे कचिच्चापि पुरुषे भारतश्रुते ।
शिखण्डवति तु त्रि स्याच्छिखरी तु पुमान् गिरौ ॥ १८३५ ॥
अपामार्गसमाख्ये च स्तम्बे रभस उक्तवान् ।
तरौ च स्त्री तु विज्ञेया छन्दस्यत्यष्टिसंज्ञके ॥ १८३६ ॥ वृत्तभेदे शिखरिणी मार्जितासंज्ञके तथा । संस्कृते तक्रभेदे स्याच्छीतकस्त्वलसे त्रिपु || १८३७ ॥ ज्वालाभेदे शीतिका स्त्री शीकरस्तु पुमानयम् ।
* वाताद्य (स्ते) स्नेह (कणे) हस्त्यायुर्वेदिनः पुनः ॥ १८३८ ॥ हस्तिहस्त समुद्भूतदानवारिण्यधीयते ।
गुणे च शवले शीतगुणे च स्यात् त्रिषु त्वयम् ॥ १८६९ ।। - गुणयोरेतयोरेकयुक्ते स्याच्छीतलस्तु ना ।
चम्पकाख्ये पुष्पतरौ तथा शीतगुणेत्रि तु ॥ १८४० ॥ तद्वत्यथ स्त्रियां रक्तवर्णायां गंवि शीतला ।
श्रीफलस्तु पुमान् बिल्वे श्रीफली तु स्त्रियामियम् ॥ १८४१ ॥
२०७
'शीकरं सरले वानसृताम्बुकणयोः पुमान्' इति मेदिनी, 'अथ शीकरः । वातास्तजलेऽम्बुकणे' इति हेमचन्द्रः ।