________________
नानाणिवसंमेपे वृषभे शकरीसंज्ञच्छन्दसि त्वेतदीरितम् ।। क्ली त्रिस्तु शकरीयोगिन्यथ स्याच्छाम्बरं त्रिषु ॥ १८१९ ॥ शम्बरेण हि सम्बद्धे शाम्बरी तु स्त्रियामियम् । मायायामथ पुल्लिङ्गः श्रावकः कण्ठजे गुणे ॥ १८२० ॥ गायकानां गुणवायं यो दूराच्यावयेद् ध्वनिम् । स स्यात् विस्तु भवेच्चोतमापवित्रोरथ योः ॥ १८२१ ॥ व्याने सिंहे च शाईलो ना भागोचरवर्धिनाम् । हिनादीनां दशानां स्याच्चूर्णेऽथो पुंसि शाबरः ॥ १८२२ ॥ लोधे की त्वपराधे च पापे च शबरस्य तु । सम्बन्धिनि त्रि ना तु स्यान्मास श्रावणिके तथा ॥ १८२३ ।। श्रावणः श्रावणी तु स्त्री पौर्णमास्यां हि या भवेत् । श्रवणाहयनक्षत्रयुक्ता तस्यां तथा भवेत् ।। १८२४ ॥ मुण्डीसंज्ञकभैषज्यस्तम्बेऽथ रभसोऽपठीत् । दध्या(दिली)संज्ञके वल्लिभेदेऽथ श्रवणस्य यत् ॥ १८२५ ॥ सम्बन्धि तत्र त्रिः शीतगुणे तु शिशिरः पुमान् । त्रि तु तद्वति शैखाख्ये वृतुमेदे नृशण्डयोः ।। १८२६ ॥ . शिखरोऽत्री गिरेः शृङ्गे वृक्षाने रमसः पुनः । पकदाडिमवीजाभमाणिक्यशकलेऽभ्यधात् ॥ १८२७ ।। पुलकेऽपि स एवाह भेद्यलिङ्गं तु बोधत । वर्तुले यत् त्विदं प्रोक्तं कैश्चिच्छोभनवाचकैः ॥ १८२८ ॥ बुधैः शिखरशब्दोऽयमित्यसत् तदमूलकम् । शिशुकस्तु द्वयोर्बाले शिंशुमारे तथैव च ॥ १८२९ ॥
.... 'रत्रिषु' ग. 6. च. पाठः, २. 'कम्' ग. पाठः.
'+ 'दण्याल्या श्राव(गा ? णी) मता' इति मेदिनी ।