________________
यक्षरकाण्डे नानालिङ्गाध्यायः। यशोदा त्वनिचित्याया इष्टकासु च कासुचित् । नन्दगोपस्य भार्यायां त्रिस्तु कीर्तः प्रदातरि ॥१४५९ ॥ यवनस्तु द्वयोमर्त्यजातिभेदे यदुद्भवः । शूद्रायां क्षत्रियादन्ये पुनराहुर्मनीषिणः ॥ १४६० ॥ वैश्यायां क्षत्रियाजात इति पुम्भूम्नि तु स्मृतः । नीवृद्धदे हि यवना हुरुष्करसमाख्यके ॥ १४६१ ॥ तद्देशजातम] तु द्वयोः सर्ववचस्यपि । क्रीचं तु मिश्रणेऽथ स्याद् यजत्रं लीवलिङ्गकम् ॥ १४६२ ॥ अग्निहोत्रे च यज्ञोपकरणे चाथ भेद्यवत् । यजनीयेऽथ नलिङ्गं यमकं कवयो विदुः ॥ १४६३ ॥ भिन्नार्थवर्णसङ्घातावृत्तिरूपे व्यवस्थिते । काव्यालङ्कारभेदे स्यात् तैलसपियेऽपि च ॥ १४६४ ॥ रभसस्तु वदत्येतत् संयम यमलेऽपि च । अथो यमयितर्येतद् भेद्यवत् स्याद् द्वयोः पुनः ॥ १४६५ ॥ यज्ञाः कृष्णसाराख्यमृगे त्रियागयोग्यके । यझियस्तु पुमान् मुझे यज्ञकर्माईके त्रिषु ॥ १४६६ ॥ यविष्ठः सवनाहुत्यर्थऽमी ना भेद्यवत् पुनः । भवेद् युवतमेऽथ स्याद् याजकः पुंसि ऋत्विजि ॥ १४६७ ॥ स्याद् यष्ट्याजयित्रोस्त्रिरथ स्यात् पुंसि याज्ञिकः । कुशे च याजके चापि रभसः प्रोक्तवानमुम् ॥ १४६८ ॥ यज्ञविद्यामधीयाने विदत्यप्यथ भेद्यवत् । यज्ञेन जयतीत्यादौ गाजन्यस्तु पुमानयम् ॥ १४६९ ॥ यज्ञे द्वे तु क्षत्रियेऽथ यापना नस्त्रियोर्भवेत् । प्रस्थापने निरसने वर्तने रभसः पुनः ॥ १४७० ॥ . .
.
1. 'एक' क. रु. च. पाठः. २. 'शले या' ग. पाठा.