________________
अक्षरकाण्डे नानालिङ्गाध्यायः ।
बले सुखे च श्रूषा तु शाकभेदे स्त्रियामियम् । वैजयन्त्यां कासमर्दे स्माह शूली तु शङ्करे ॥ १४०८ ॥ पुंसि शूलवति त्वेष त्रिषु शृङ्गस्तु न स्त्रियाम् । विषाणे शैलशिखरे वररुच्यादयः पुनः ॥ १४०९ ॥ सानौ क्रीडाम्बुयन्त्रे च प्रधानेऽन्यस्तु मन्यते । प्राधान्येऽन्यः प्रभुत्वेऽथ जीवकाह्वयभेषजे ॥ १४१० ॥ ना क्ली तु ज्वलिनि स्त्री तु शृङ्गी स्याद् भेषजान्तरे । यस्य कर्कटशृङ्गीति संज्ञा यस्यायो विषा ॥ १४११॥ तत्रापि भेषजे मत्स्यावेशेषेऽन्ये त्वभुत्सत । मद्गराख्यस्य मत्स्यस्य प्रियायामित्यथ शृधूः ॥ १४१२ ॥ गुदे स्त्री कृमिजातौ च ना तु स्याद् दानवान्तरे । ख्याते बलिरिति स्यात्तु शृङ्गी ना वृषभाये || १४१३ ॥ भेषजे वृषभेऽश्वे च यस्य शृङ्गपदे भवेत्
मांसबुद्बुद उक्ता तु शृङ्गिणी सुरभी स्त्रियाम् ।। १४१४ ॥ महिषे तु द्वयोः शृङ्गवति तु त्रिः पुमान् पुनः । शेषोऽप्रधानेऽनन्ताख्य सर्पराजेऽथ शार्ङ्गिणः
१४१५ ॥
अवतारान्तरेऽपत्ये त्रिस्त्वन्यत्रोपयुक्ततः ।
माल्याक्षतादिदाने तु स्त्री शेषा शेववाक् तु नप् ॥ १४१६ ॥ सुखे धने च शेवा तु निद्राभेदे स्त्रियामियम् । प्रचलासंज्ञके श्वेतस्त्वृषिभेदे नृलिङ्गकः ॥ १४१७ ॥
कुलशैलान्तरे मेरोरुत्तरानीलपर्वतात् । उत्तरे शुक्लवर्णे च स्यादथो त्रिषु तद्वति ॥ १४१८॥
क्लीबं तु दनि रजतेऽप्यथ श्वेता सुरान्तरे । . पैष्टिकीसंज्ञके स्त्री स्यान्नदीभेदे लतान्तरे ।। १४१९ ॥
निरूपितः श्वेतशब्दः श्येतस्तु श्वेतवर्णके ।
पुमांस्तद्वति तु त्रि स्यात् तत्रापि स्त्र्यर्थता यदा ॥ १४२० ॥
१६३