SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ मानार्थार्णवसंझेपे स्कन्धसञ्जातशाखायां सूक्ष्मैलायां च ना पुनः । पत्तरे गमने त्रिस्तु गन्तरि वालवाक् तु ना ॥ १३४८ ॥ आशुगत्यां द्वयोस्तु स्याच्छुनि शाखा पुनः स्त्रियाम् । तरोलतायां देहस्य पादे वाही तथाङ्कलौ ॥ १३४९॥ वेदव्यक्तिषु चाथो ना स्कन्ददेवस्य पृष्ठजे । देवभेदे नृस्त्रियोस्तु व्याप्ती श्राद्धं पुनर्नपि ॥ १३५०॥ पितॄणां भोजनायां स्यात् तत्तु श्रद्धावति त्रिषु । तत्रापि स्व्यर्थवृत्तित्वे श्राद्धा श्राणा त्वियं स्त्रियाम् ॥ १३५१ ॥ यवाग्वां त्रि तु पक्के स्यात् क्षीराच्च हविषस्तथा । अन्यत्र क्ली तु पाकेऽयो शार्ड क्ली सामसु कचित् ॥ १३५२ ॥ द्वे तु पक्ष्यन्तरे शार्ज पुनर्धनुषि शार्जिणः । अजयः शृङ्गविहितचापेऽप्याह विशेषतः ॥ १३५३ ॥ धनुर्माने च नप् शृङ्गविकारे तु त्रिषु स्मृतः । शृङ्गसम्बन्धिमात्रे चाप्यथाहतुरवैदिकौ ॥ १३५४ ॥ "शाः पक्षिविशेषे द्वे इति शारः पुनः पुमान् । वायौ कर्बुरवणे च त्रि तु तद्वत्यथो नूनम् ॥ १३५५ ॥ द्यूतशारौ वराटेऽपि शबरखाम्यवोचत । . शारिः स्त्री शारिकासंज्ञविहले नृस्त्रियोः पुनः ॥ १३५९ ॥ पर्याणभेदे द्यूतस्य गुडे शारयतौ तु ना। शालुः कषाये ना त्रिस्तु तद्वति द्वे तु दर्दुरे ॥ १३५७ ॥ शानी तु पुंसि गोविन्दे तथा शार्ङ्गवति त्रिषु । शिवः शम्भौ पद्मरागे गोरसे शीथुकीलयोः ॥ १३५८॥ सुनिषण्णाख्यशाके च नाथ वातमृगे द्वयोः । अथो शिवा स्त्री पार्वत्यां शम्भोर्नवसु शक्तिषु ॥ १३५९ ॥ १. 'स्तु' इ. पाठः. २. 'न' क. ग. घ., 'न न' ख. पाठः.. ३. स्त्रियां तु शा' ग. पाठः
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy