________________
अक्षरकाडे मानाकिन्यायः। रूपे च कश्चित् की तु न्योनि कश्चित्तु वारिणि । वेणस्तु वे मनुष्याणां जातिभेदे प्रकीर्तितः ॥ १२८९ ॥ पुत्रे वैदेहकाम्बष्ठयोननाम्न्येव जीवति । लखनप्लवनायैः स्यात् तूमराज्ञीसुतेऽपि च ॥ १२९० ॥ मायासम्मोहनादीनि वृत्तिश्चेत् तस्य स त्वयम् । वेणा स्यान्नृस्त्रियोर्ज्ञाननिशामनगतिप्वपि ॥ १२९१ ॥ चिन्तायामपि वादित्रग्रहणेऽप्यथ वेनवाक् । द्वे नृजात्यन्तरेऽम्बष्ठीवैदेहकसमुद्भवे ॥ १२९२ ॥ स्यात् पारधेनुके चाथ वैदेखम्बष्टजेऽपि च । ना तु प्रजापतौ यज्ञे मेधाविनि तु स त्रिषु ॥ १२९३ ॥ ध्यानिन्यप्यथ वेलो ना चूते क्ली तत्फलेऽथ सा । वेला कूले समुद्रस्य तदम्बुविकृतावपि ॥ १२९४ ॥ , तरले वत्सरे काले व्यवस्थायामपि त्रियाम् । वेल्ला तु वेल्लने नृत्री विडझे तु नपुंसकम् ॥ १९९५ ॥ वेटी स्त्री नावि वेटस्तु ना शब्दे वेष्टवाक् तु ना। श्रीवेष्टसंज्ञे निर्यासे वेष्टने तु नरस्त्रियोः ॥ १२९६ ॥ वेष्टा वेध्यं शरव्ये क्ली वाद्यभेदे तु सा स्त्रियाम् । वेध्या वेणिस्तु केशानां बन्धभेदे जलस्रुतौ ॥ १२९७ ॥ कश्चित्तु मध्ये नद्यादेर्मेष्यां स्याच लतान्तरे । देवताडाहये ना तु धातौ स्याद् वेणतावथ ॥ १२९८ ॥ वेदिविती यागाय परिष्कृतमहीतले। अमिकुण्डे चतुष्कोणे त्वमि(द?कु)*ण्डे परे विदुः ॥ १२९९ ॥ ना तु वेदयतौ ज्ञेयो वेगी तु नरि मारुते ।
त्रि तु वेगवति त्रिस्तु वेधा विदुषि तं पुनः ॥ १३०० ॥ १. "पुत्र' ग. पाठः. २. 'मनि' ग. पाठः. * 'कुण्डं हवित्री हवनी कुण्डे स्याद् वर्तुले परम् । वेदिः स्त्रियां चतुष्कोणे' (पु. ९२. श्लो. १०९.१०) इति वैजयन्ती।