SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ अक्षरकाण्डे मानालिङ्गाध्यायः । चारुप्रधानयोश्चापि रामा तु स्त्र्यन्तरे स्त्रियाम् । राकशब्दस्तु पुल्लिङ्गो ज्ञेय आतपसूर्ययोः ॥ १०९९ ॥ राका पुनः स्त्रियां पूर्णचन्द्रे स्यात् पूर्णिमान्तरे । जातार्तवायां कन्यायां रातं तु त्रिषु दाशिते ॥ ११०० ॥ सम्बन्धिनि स्त्र्यर्थे राता राती यथाक्रमम् । उक्तयोरर्थयोः क्की तु दाने कन्यान्तरे पुनः ॥ ११०१ ॥ राता विहारशीले स्त्री राधा स्त्री कर्णमातरि । विशाखाख्ये च नक्षत्रे तद्युक्ते कालमात्रके । ११०२ ॥ जाते तु तत्र त्रिर्ना तु राधो वैशाखमासि च । पौर्णमास्यां तु वैशाख्यां राधी स्त्री राष्ट्रवाक् पुनः ॥ ११०३ ॥ नृशण्डयोरजन्ये च विषयेऽप्यथ राम्भवाक् । ना दण्डे वैणवे रम्भासम्बन्धिनि तु स त्रिषु ॥ ११०४ ॥ राशिः क्रत्वन्तरे पुत्रे मेषादावाढके च ना । साम्नोस्त्वभिन्नरोवर्गगीतयोः स्यान्नपुंसकम् ॥ ११०५॥ राजा ना सोमवल्ल्यां च चन्द्रे च द्वे तु पार्थिवे । क्षत्रिये च प्रभौ तु त्रिरस्मिन्नर्थत्रये यदा ।। ११०६ ॥ स्त्र्यर्थे वृत्तिस्तदा राज्ञी ब्रह्मरीत्याह्वये पुनः । लोहे राज्ञी स्त्रियामेव रितं तु क्ली गतौ त्रि तु ॥ ११०७ ॥ गतेऽथ वेद एवेदं हिंसने की त्रि हिंसिते । रिष्टं स्वभावे की पापेऽप्यथ त्रिरशुभे शुभे ॥ ११०८ ॥ थाप्ये च रिक्तशब्दस्तु शून्ये त्रिक्ली तु रेचने । क्षीयमाणतिथिप्रायपक्षे तु नरि स त्वयम् ॥ ११०९ ॥ चतुर्थ्यां च नवम्यां च चतुर्दश्यां तिथौ पृथक् । रिक्ता स्त्री रिपुशब्दस्तु शत्रौ ना त्रि तु चोरके ॥ ११.१० ॥ १. 'दे' ख ग ङ. पाठ: LTC
SR No.032333
Book TitleNanartharnav Sankshep
Original Sutra AuthorN/A
AuthorKeshav Swami, Ganpati Shastri
PublisherAmar Publication
Publication Year
Total Pages342
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy