________________
(433)
जयति कल्पित कल्पतरुपमं, मतमसारतरागमदारिणा; प्रथितमत्र जिनेन मनीषिणा - मतमसा रतसगमदाऽरिणा. घनरुचिर्जयताद् भुवि 'मानवी, गुरुतराऽविहतामरसंगता; कृतकरात्रवरे फलपत्रभा - गुरुतराविह तामरसं गता श्रीश्रेयांसनाथजिनेन्द्र - स्तुति ( ११ )
( हरिणी -वृत्तम् )
कुसुमधनुषा यस्मादन्यं न मोहवशं व्यधुः, कमलसदृशां गीतारावा बलादयि तापितम् ; प्रणमततमां द्राकू श्रेयांसं न चाहृत यन्मनः, कमलसदृशाङ्गी तारा वाबला दयितापि तम् . जिनवरततिर्जीवाली नामकारणवत्सलासमदमहिताऽमारादिष्टासमानवराऽजया; नमदमृतभ्रुक्यङ्कङ्क्त्या नृता तनोतु मतिं ममाऽसमदमहितामारादिष्टा समानवराजया. भवजलनिधिभ्राम्यञ्जन्तुव्रजायतपोत: हे, तनु मतिमतां सन्नाशानां - सदा नरसंपदम् ; १ ' मानसी' इति पुस्तकान्तरे पाठः..
१