________________
(५३२) श्रीसुविधिनाथजिनेन्द्र-स्तुति (९)
( उपजाति-वृत्तम् ) तवाभिवृद्धिं सुविधिविधेयात्, सभासुरालीनतपा दयावन् !, यो योगिपतया प्रणतो नभःसत्-सभासुरालीनतपादयाऽवत् ? या जन्तुजाताय हितानि राजी, सारा जिनानामलपद् ममालम्, दिश्यान्मुदं पादयुगं दधाना, सा राजिनानामलपनमालम्. २ जिनेन्द्र भङ्गः प्रसभं गभीरा-शु भारती शस्यतमस्तवेन, निर्नाशयन्ती मम शर्म दिश्यात्, शुभाऽरतीशस्य तमस्तवेन! ३ दिश्यात्तवाशु ज्वलनायुधाऽल्प-मध्या सिता कं प्रवरालकस्य, अस्तेन्दुरास्यस्य रुचोरुपृष्ठ-मध्यासिताऽकम्पवरालकस्य. ४ श्रीशीतलनाथजिनेन्द्र-स्तुतिः (१०)
(द्रुतविलम्बित-वृत्तम् ) जयति शीतलतीर्थकृतः सदा, चलनतामरसं सदलं धनम् ; नवकमम्बुरुहां पथि संस्पृशत् , चलनताऽमरसंसदलड्डनम् . स्मर जिनान् परिणुजरारजोजननतानवतोदयमानतः परमनिर्दृतिशर्मकृतो यतो, जन नतानवतोऽदयमानतः