________________
(५३१) श्रीचन्द्रप्रभजिनेन्द्र-स्तुतिः (८)
( मन्दाक्रान्ता-वृत्तम् ) तुभ्यं चन्द्रप्रभ जिन नमस्तामसोज्जृम्भितानां, हाने कान्ताऽनलसम दयावन् दितायासमान; विद्वत्पत्तया प्रकटितपृथुस्पष्टदृष्टान्तहेतूहानेकान्तानलसमदया वन्दितायाऽसमान ! जीयाद् राजिर्जनितजननज्यानिहानिर्जिनानां, सत्यागारं जयदमितरुक् सारविन्दाऽवतारम् ; भव्योद्धृत्या भुवि कृतवती याऽवहद्भर्मचक्रं, सत्यागा रञ्जयदमितरुक् सा रविं दावतारम् . सिद्धान्तः स्तादहितहतयेऽख्यापययं जिनेन्द्र, सद्राजीवः स कविधिपणापादनेऽकोपमानः; दक्षः साक्षाच्छवणचुलकैय च मोदाद्विहाय:सद्राजी वः सकविधिषणाऽपादनेकोपमानः । वज्राङ्कुश्यङ्कुशकुलिशभृत् त्वं विधत्स्व प्रयत्नं, स्वायत्यागे तनुमदवने हेमताराऽतिमत्ते; अध्यारुढे शशधरकरश्वेतभासि द्विपेन्द्रे, खायत्याऽगेऽतनुमदवने हेऽमतारातिमत्ते!
२