________________
(430) श्रीसुपार्श्वनाथजिनेन्द्र-स्तुतिः । (७)
( मालिनी-वृत्तम् ) कृतनति कृतवान् यो जन्तुजातं निरस्त
स्मरपरमदमायामानबाधाऽयशस्तम् । सुचिरमविचलत्वं चित्तवृत्तेः सुपार्श्व,
स्मर परमदमाया मानवाधाय शस्तम् ॥१॥ व्रजतु जिनततिः सा गोचरं चित्तवृत्तः,
सदमरसहिताया वोऽधिका मानवानाम् । पदमुपरि दधाना वारिजानां व्यहार्षीत,
सदमरसहिता या बोधिकामा नवानाम् ॥२॥ दिशदुपशमसौख्यं संयतानां सदैवो
रु जिनमतमुदारं काममायामहारि । जननमरणरीणान् वासयत् सिद्धवासे
ऽरुजि नमत मुदा काममायामहारि ॥३॥ दधति रविसपत्नं रत्नमाभास्तभास्व
अवघनतरवारिं वा रणारावरीणाम् । गतवति विकिरत्याली महामानसीष्टा
बव घनतरवारिं वारणारावरीणाम् ॥४॥